००३

सर्वाष् टीकाः ...{Loading}...

०१ उद् अपप्तद् असौ

विश्वास-प्रस्तुतिः ...{Loading}...

उद् अपप्तद् असौ सूर्यः
पुरुदृष्टो अदृष्टहा ।
उदायन् रश्मिभिर् हन्तु-
-उदायन्न् अरसाँ अकः ॥

०२ न्य् अम्रुचद् असौ

विश्वास-प्रस्तुतिः ...{Loading}...

न्य् अम्रुचद् असौ सूर्यो
विश्वदृष्टो अदृष्टहा ।
निम्रोचन् रश्मिभिर् हन्तु
निम्रोचन्न् अरसाँ अकः ॥

०३ ये च दृष्टा

विश्वास-प्रस्तुतिः ...{Loading}...

ये च दृष्टा ये चादृष्टा
उभयेहाविष्यवः ।
तेषां वो अग्रभं नाम
सर्वे साकं नि जस्यत ॥

०४ अदृष्टहननी वीरुद् अमितौजा

विश्वास-प्रस्तुतिः ...{Loading}...

अदृष्टहननी वीरुद्
अमितौजा विषासहि ।
चुकाकणि त्वं जज्ञिषे
सादृष्टाञ् जातशो जहि ॥

०५ जहि ज्येष्ठम् अदृष्टानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

जहि ज्येष्ठम् अदृष्टानां
सर्पाणां मोघचारिणाम् ।
क्रिमीणां सर्वा जातानि
?पौञ्जष्ट इव यवं मृण ॥

०६ यश् च तोदो

विश्वास-प्रस्तुतिः ...{Loading}...

यश् च तोदो यश् च सर्प
एकादशश् च यो वृषा । +++(ekādaśaś (?); Bhatt. ekādṛṣṭaś)+++
चुकाकणि त्वं तान् वृश्च
वृक्षं परशुमान् इव ॥

०७ सं वृश्चैनांश् चुकाकणि

विश्वास-प्रस्तुतिः ...{Loading}...

सं वृश्चैनांश् चुकाकणि
वृक्षं परशुमान् इव ।
क्रिमीणां सर्वा जातानि
सं दहाग्निर् इवोलपम् ॥

०८ मेथिष्ठा अग्निर् अघलस्

विश्वास-प्रस्तुतिः ...{Loading}...

मेथिष्ठा अग्निर् अघलस् त्विषीमान्
क्रिमीणां जातानि प्र दुनोतु सर्वा ।
बृहस्पतेर् मेदिने जातवेदा
अदृष्टान् हन्तु दृषदेव माषान् ॥