सर्वाष् टीकाः ...{Loading}...
०१ इयं पित्रे राष्ट्र्य्
विश्वास-प्रस्तुतिः ...{Loading}...
इयं पित्रे राष्ट्र्य् एत्य् अग्रे
प्रथमाय जनुषे भूमनिष्ठाः ।
तस्मा एतं सुरुचं ह्वारम् अह्यं
घर्मं श्रीणन्ति प्रथमस्य धास्योः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं पित्रे राष्ट्र्य् एत्य् अग्रे
प्रथमाय जनुषे भूमनिष्ठाः ।
तस्मा एतं सुरुचं ह्वारम् अह्यं
घर्मं श्रीणन्ति प्रथमस्य धास्योः ॥
सर्वाष् टीकाः ...{Loading}...
०२ ब्रह्म जज्ञानं प्रथमम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्
वि सीमतः सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः
सतश् च योनिम् असतश् च वि वः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्
वि सीमतः सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः
सतश् च योनिम् असतश् च वि वः ॥
सर्वाष् टीकाः ...{Loading}...
०३ प्र यो जज्ञे
विश्वास-प्रस्तुतिः ...{Loading}...
प्र यो जज्ञे विद्वाꣳ अस्य बन्धुं
विश्वानि देवो जनिमा विवक्ति ।
ब्रह्म ब्रह्मण उज् जभार मध्यान्
नीचाद् उच्चा स्वधा अभि प्र तस्थौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र यो जज्ञे विद्वाꣳ अस्य बन्धुं
विश्वानि देवो जनिमा विवक्ति ।
ब्रह्म ब्रह्मण उज् जभार मध्यान्
नीचाद् उच्चा स्वधा अभि प्र तस्थौ ॥
सर्वाष् टीकाः ...{Loading}...
०४ महान् मही अस्कभायद्
विश्वास-प्रस्तुतिः ...{Loading}...
महान् मही अस्कभायद् वि जातो
द्यां द्वितः पार्थिवं च रजः ।
स बुध्नाद् आष्ट्र जनुषाभ्य् अग्रं
बृहस्पतिर् देवता तस्य सम्राट् ॥
मूलम् ...{Loading}...
मूलम् (GR)
महान् मही अस्कभायद् वि जातो
द्यां द्वितः पार्थिवं च रजः ।
स बुध्नाद् आष्ट्र जनुषाभ्य् अग्रं
बृहस्पतिर् देवता तस्य सम्राट् ॥
सर्वाष् टीकाः ...{Loading}...
०५ नूनं तद् अस्य
विश्वास-प्रस्तुतिः ...{Loading}...
नूनं तद् अस्य गव्यं हिनोति
महो देवस्य पूर्वस्य महि ।
एष जज्ञे बहुभिः साकम् इत्था
पूर्वाद् अर्धाद् अविथुरश् च सन् नु ॥
मूलम् ...{Loading}...
मूलम् (GR)
नूनं तद् अस्य गव्यं हिनोति
महो देवस्य पूर्वस्य महि ।
एष जज्ञे बहुभिः साकम् इत्था
पूर्वाद् अर्धाद् अविथुरश् च सन् नु ॥
सर्वाष् टीकाः ...{Loading}...
०६ स हि दिवः
विश्वास-प्रस्तुतिः ...{Loading}...
स हि दिवः स पृथिव्या ऋतेष्ठा
महि क्षामन् रजसी वि ष्कभायति ।
अहर् यच् छुक्रं ज्योतिषो जनिष्ट-
-अधा द्युमन्तो वि वसन्त्व् अरिप्राः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स हि दिवः स पृथिव्या ऋतेष्ठा
महि क्षामन् रजसी वि ष्कभायति ।
अहर् यच् छुक्रं ज्योतिषो जनिष्ट-
-अधा द्युमन्तो वि वसन्त्व् अरिप्राः ॥
सर्वाष् टीकाः ...{Loading}...
०७ एवाथर्वा पितरं विश्वदेवम्
विश्वास-प्रस्तुतिः ...{Loading}...
एवाथर्वा पितरं विश्वदेवं
बृहस्पतिर् नमसावोचद् अच्छ ।
त्वं विश्वस्य जनिता धास्य् अग्रे
कविर् देवान् न दभाय स्वधावः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एवाथर्वा पितरं विश्वदेवं
बृहस्पतिर् नमसावोचद् अच्छ ।
त्वं विश्वस्य जनिता धास्य् अग्रे
कविर् देवान् न दभाय स्वधावः ॥
सर्वाष् टीकाः ...{Loading}...
०८ मूर्ध्ना यो अग्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
मूर्ध्ना यो अग्रम् अभ्यर्त्य् ओजसा
बृहस्पतिम् आ विवासन्ति देवाः ।
भिनद् वलं वि मृधो दर्दरीति
कनिक्रदद् गाः स्वर् अपो जिगाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
मूर्ध्ना यो अग्रम् अभ्यर्त्य् ओजसा
बृहस्पतिम् आ विवासन्ति देवाः ।
भिनद् वलं वि मृधो दर्दरीति
कनिक्रदद् गाः स्वर् अपो जिगाय ॥