सर्वाष् टीकाः ...{Loading}...
०१ शुनं वत्सान् अपा
विश्वास-प्रस्तुतिः ...{Loading}...
शुनं वत्सान् अपा करोमि
शुनं बध्नामि तन्त्याम् ।
आग्रयणं ब्रह्मणां हविस्
तस्मिञ् जागार कश्यपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुनं वत्सान् अपा करोमि
शुनं बध्नामि तन्त्याम् ।
आग्रयणं ब्रह्मणां हविस्
तस्मिञ् जागार कश्यपः ॥
सर्वाष् टीकाः ...{Loading}...
०२ बाहुं वत्सम् उपनयन्
विश्वास-प्रस्तुतिः ...{Loading}...
बाहुं वत्सम् उपनयन्
पात्रे गां दुहन्न् अब्रवीत् ।
अरिष्टं ब्रह्मभ्यो हविः
शिवं कृणोतु कश्यपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
बाहुं वत्सम् उपनयन्
पात्रे गां दुहन्न् अब्रवीत् ।
अरिष्टं ब्रह्मभ्यो हविः
शिवं कृणोतु कश्यपः ॥
सर्वाष् टीकाः ...{Loading}...
०३ त्रयस् तिष्ठन्ति सुकृतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
त्रयस् तिष्ठन्ति सुकृतस्य लोके
त्रयो ऽतीकाशास् त्रीणि शीर्षाण्य् एषाम् ।
त्रयस् तिष्ठन्ति परिगृह्य कुम्भीं
यथा हविः कश्यप न व्यथातै ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रयस् तिष्ठन्ति सुकृतस्य लोके
त्रयो ऽतीकाशास् त्रीणि शीर्षाण्य् एषाम् ।
त्रयस् तिष्ठन्ति परिगृह्य कुम्भीं
यथा हविः कश्यप न व्यथातै ॥
सर्वाष् टीकाः ...{Loading}...
०४ सत्यात् सम्भूतो वदति
विश्वास-प्रस्तुतिः ...{Loading}...
सत्यात् सम्भूतो वदति
तण्डुलान् क्षीर आवपन् ।
ऋषिर् ब्रह्मभ्य आग्रयणं
नि वेदयतु कश्यपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सत्यात् सम्भूतो वदति
तण्डुलान् क्षीर आवपन् ।
ऋषिर् ब्रह्मभ्य आग्रयणं
नि वेदयतु कश्यपः ॥
सर्वाष् टीकाः ...{Loading}...
०५ ऋतुमुखे चन्द्रभागः पात्र
विश्वास-प्रस्तुतिः ...{Loading}...
ऋतुमुखे चन्द्रभागः
पात्र ओदनम् उद् धरात् ।
प्राश्नन्तु ब्रह्माणो हविर्
यथा वेदेन कश्यपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋतुमुखे चन्द्रभागः
पात्र ओदनम् उद् धरात् ।
प्राश्नन्तु ब्रह्माणो हविर्
यथा वेदेन कश्यपः ॥
सर्वाष् टीकाः ...{Loading}...
०६ ये भूतान्य् असृजन्त
विश्वास-प्रस्तुतिः ...{Loading}...
ये भूतान्य् असृजन्त
ये भूतान्य् अकल्पयन् ।
सर्वस्य विद्वान् अध्वर्युः
षण्णां भवतु कश्यपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये भूतान्य् असृजन्त
ये भूतान्य् अकल्पयन् ।
सर्वस्य विद्वान् अध्वर्युः
षण्णां भवतु कश्यपः ॥
सर्वाष् टीकाः ...{Loading}...
०७ शिवा आपो वत्सेभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
शिवा आपो वत्सेभ्यः
शिवा भवन्त्व् ओषधीः ।
वातो वत्सेभ्यः कश्यपः
शिवः शिवं तपतु सूर्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शिवा आपो वत्सेभ्यः
शिवा भवन्त्व् ओषधीः ।
वातो वत्सेभ्यः कश्यपः
शिवः शिवं तपतु सूर्यः ॥