सर्वाष् टीकाः ...{Loading}...
०१ इन्द्रस्य मन्वे शश्वद्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस्य मन्वे शश्वद् यस्य मन्विरे
वृत्रघ्न स्तोमा उप मेम आगुः । +++(Bhatt. memam)+++
यो दाशुषः सुकृतो हवम् एता
स नो मुञ्चत्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस्य मन्वे शश्वद् यस्य मन्विरे
वृत्रघ्न स्तोमा उप मेम आगुः । +++(Bhatt. memam)+++
यो दाशुषः सुकृतो हवम् एता
स नो मुञ्चत्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यश् चर्षणिप्रो वृषभः
विश्वास-प्रस्तुतिः ...{Loading}...
यश् चर्षणिप्रो वृषभः स्वर्विद्
यस्य ग्रावाणः प्रवदन्ति नृम्णे ।
यस्याध्वरः सप्तहोता मदच्युत्
स नो मुञ्चत्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यश् चर्षणिप्रो वृषभः स्वर्विद्
यस्य ग्रावाणः प्रवदन्ति नृम्णे ।
यस्याध्वरः सप्तहोता मदच्युत्
स नो मुञ्चत्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०३ य उग्राणाम् उग्रबाहुर्
विश्वास-प्रस्तुतिः ...{Loading}...
य उग्राणाम् उग्रबाहुर् यजुर् यो
दानवानां बलम् आससाद ।
येन जिताः सिन्धवो येन गावः
स नो मुञ्चत्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
य उग्राणाम् उग्रबाहुर् यजुर् यो
दानवानां बलम् आससाद ।
येन जिताः सिन्धवो येन गावः
स नो मुञ्चत्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यस्य वशास ऋषभास
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य वशास ऋषभास उक्षणो
यस्मै मीयन्ते स्वरवः स्वर्विदे ।
यस्मै शुक्रः पवते ब्रह्मशुम्भितः
स नो मुञ्चत्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य वशास ऋषभास उक्षणो
यस्मै मीयन्ते स्वरवः स्वर्विदे ।
यस्मै शुक्रः पवते ब्रह्मशुम्भितः
स नो मुञ्चत्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०५ यस्य जुष्टिं सोमिनः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य जुष्टिं सोमिनः कामयन्ते
यं हवन्त इषुवन्तं गविष्टौ ।
यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः
स नो मुञ्चत्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य जुष्टिं सोमिनः कामयन्ते
यं हवन्त इषुवन्तं गविष्टौ ।
यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः
स नो मुञ्चत्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०६ य उत्तमः कर्मकृत्याय
विश्वास-प्रस्तुतिः ...{Loading}...
य उत्तमः कर्मकृत्याय जज्ञे
यस्य वीर्यं प्रथमस्यानुबुद्धम् । +++(Bhatt. -nubaddham)+++
येनोद्यतो वज्रो ऽभ्यायताहिं
स नो मुञ्चत्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
य उत्तमः कर्मकृत्याय जज्ञे
यस्य वीर्यं प्रथमस्यानुबुद्धम् । +++(Bhatt. -nubaddham)+++
येनोद्यतो वज्रो ऽभ्यायताहिं
स नो मुञ्चत्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०७ यः सङ्ग्रामान् नयति
विश्वास-प्रस्तुतिः ...{Loading}...
यः संग्रामान् नयति सं युधे वशी +++(Bhatt. yuge)+++
यः पुष्टानि संसृजति द्वयानि ।
स्तौमीन्द्रं नाथितो जोहवीमि
स नो मुञ्चत्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः संग्रामान् नयति सं युधे वशी +++(Bhatt. yuge)+++
यः पुष्टानि संसृजति द्वयानि ।
स्तौमीन्द्रं नाथितो जोहवीमि
स नो मुञ्चत्व् अंहसः ॥