०३७

सर्वाष् टीकाः ...{Loading}...

०१ भवाशर्वौ मन्वे वाम्

विश्वास-प्रस्तुतिः ...{Loading}...

भवाशर्वौ मन्वे वां तस्य वित्तं
ययोर् वां विश्वं यद् इदं वितिष्ठते ।
याव् ईशाते अस्य द्विपदो यौ चतुष्पदस् (Bhatt. yaś)
तौ नो मुञ्चतम् अंहसः ॥

०२ ययोर् अभ्यध्व उत

विश्वास-प्रस्तुतिः ...{Loading}...

ययोर् अभ्यध्व उत यद् दूरे चिद्
यौ विदिताव् इषुभृताम् असिष्ठौ ।
भवाशर्वौ भवतं मे स्योनौ
तौ नो मुञ्चतम् अंहसः ॥

०३ ययोर् वधान् नापपद्यते

विश्वास-प्रस्तुतिः ...{Loading}...

ययोर् वधान् नापपद्यते किं चन-
-अन्तर् देवेषूत मानुषेषु ।
भवाशर्वौ भवतं मे स्योनौ
तौ नो मुञ्चतम् अंहसः ॥

०४ याव् आरेभाते बहु

विश्वास-प्रस्तुतिः ...{Loading}...

याव् आरेभाते बहु साकम् उग्रौ
प्र चेद् अस्राष्ट्रम् अभिभां जनेषु ।
भवाशर्वौ भवतं मे स्योनौ
तौ नो मुञ्चतम् अंहसः ॥

०५ सहस्राक्षौ वृत्रहणा हुवे

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्राक्षौ वृत्रहणा हुवे वां
दूरेहेती स्वन्नेमी उग्रौ । (Bhatt. svanemī)
भवाशर्वौ भवतं मे स्योनौ
तौ नो मुञ्चतम् अंहसः ॥

०६ यः कृत्याकृद् यातुधानो

विश्वास-प्रस्तुतिः ...{Loading}...

यः कृत्याकृद् यातुधानो महालो
नि तस्मिन् हतम् अधि वज्रम् उग्रौ ।
भवाशर्वौ भवतं मे स्योनौ
तौ नो मुञ्चतम् अंहसः ॥

०७ अधि मे ब्रूतम्

विश्वास-प्रस्तुतिः ...{Loading}...

अधि मे ब्रूतं पृतनासूग्रौ
सं वज्रेण सृजतं यः किमीदी । (Bhatt. yat kimīdi)
स्तौमि भवाशर्वौ नाथितो जोहवीमि
तौ नो मुञ्चतम् अंहसः ॥