सर्वाष् टीकाः ...{Loading}...
०१ मरुतां मन्वे अधि
विश्वास-प्रस्तुतिः ...{Loading}...
मरुतां मन्वे अधि मे ब्रुवन्तु
प्रेमं वाजं वाजसाता अवन्तु ।
आशून् इव सुयमान् अह्व ऊतये (Bhatt. suyamāṃ hva)
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मरुतां मन्वे अधि मे ब्रुवन्तु
प्रेमं वाजं वाजसाता अवन्तु ।
आशून् इव सुयमान् अह्व ऊतये (Bhatt. suyamāṃ hva)
ते नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०२ उत्सम् अक्षितं व्यचन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
उत्सम् अक्षितं व्यचन्ति ये सदा
ये वा सिञ्चन्ति रसम् ओषधीषु । (Bhatt. siñcantu)
पुरो दधे मरुतः पृश्निमातॄंस्
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्सम् अक्षितं व्यचन्ति ये सदा
ये वा सिञ्चन्ति रसम् ओषधीषु । (Bhatt. siñcantu)
पुरो दधे मरुतः पृश्निमातॄंस्
ते नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०३ पयो धेनूनां रसम्
विश्वास-प्रस्तुतिः ...{Loading}...
पयो धेनूनां रसम् ओषधीनां
जवम् अर्वतां कवयो य इन्वथ ।
शग्मा भवन्तु मरुतः स्योनास्
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पयो धेनूनां रसम् ओषधीनां
जवम् अर्वतां कवयो य इन्वथ ।
शग्मा भवन्तु मरुतः स्योनास्
ते नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०४ अपः समुद्राद् दिवम्
विश्वास-प्रस्तुतिः ...{Loading}...
अपः समुद्राद् दिवम् उद् वहन्ति
दिवस् पृथिवीम् अभि ये सृजन्ति ।
ये +ऽद्भिर् ईशाना मरुतश् चरन्ति
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपः समुद्राद् दिवम् उद् वहन्ति
दिवस् पृथिवीम् अभि ये सृजन्ति ।
ये +ऽद्भिर् ईशाना मरुतश् चरन्ति
ते नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०५ ये कीलालैस् तर्पयन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
ये कीलालैस् तर्पयन्ति ये घृतेन
ये वा वयो मेदसा संसृजन्ति ।
य ईशाना मरुतो वर्षयन्ति
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये कीलालैस् तर्पयन्ति ये घृतेन
ये वा वयो मेदसा संसृजन्ति ।
य ईशाना मरुतो वर्षयन्ति
ते नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०६ यदीद् इदं मरुतो
विश्वास-प्रस्तुतिः ...{Loading}...
यदीद् इदं मरुतो मारुतेन
यदि देवा दैव्येनेदृग् आर ।
यूयम् ईशिध्वे वसवस् तस्य निष्कृतेस्
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदीद् इदं मरुतो मारुतेन
यदि देवा दैव्येनेदृग् आर ।
यूयम् ईशिध्वे वसवस् तस्य निष्कृतेस्
ते नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०७ तिग्मम् अनीकं विदितम्
विश्वास-प्रस्तुतिः ...{Loading}...
तिग्मम् अनीकं विदितं सहस्वन्
मारुतं शर्धः पृतनासूग्रम् ।
स्तौमि मरुतो नाथितो जोहवीमि
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तिग्मम् अनीकं विदितं सहस्वन्
मारुतं शर्धः पृतनासूग्रम् ।
स्तौमि मरुतो नाथितो जोहवीमि
ते नो मुञ्चन्त्व् अंहसः ॥