सर्वाष् टीकाः ...{Loading}...
०१ वायोः सवितुर् विदथानि
विश्वास-प्रस्तुतिः ...{Loading}...
वायोः सवितुर् विदथानि मन्महे
याव् आत्मन्वद् विदथो यौ च रक्षथः ।
यौ विश्वस्य परिभू बभूवथुस्
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वायोः सवितुर् विदथानि मन्महे
याव् आत्मन्वद् विदथो यौ च रक्षथः ।
यौ विश्वस्य परिभू बभूवथुस्
तौ नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०२ ययोः सङ्ख्याता वरिमाणि
विश्वास-प्रस्तुतिः ...{Loading}...
ययोः संख्याता वरिमाणि पार्थिवा
याभ्यां रजो गुपितम् अन्तरिक्षम् ।
ययोः प्रयां नानु कश् चनानशे
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ययोः संख्याता वरिमाणि पार्थिवा
याभ्यां रजो गुपितम् अन्तरिक्षम् ।
ययोः प्रयां नानु कश् चनानशे
तौ नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०३ तव व्रते नि
विश्वास-प्रस्तुतिः ...{Loading}...
तव व्रते नि विशन्ते जनासस्
त्वय्य् उदिते प्रेरते चित्रभानो ।
युवं वायो सविता च भुवनानि रक्षथस् +++(Bhatt. vāyuḥ)+++
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तव व्रते नि विशन्ते जनासस्
त्वय्य् उदिते प्रेरते चित्रभानो ।
युवं वायो सविता च भुवनानि रक्षथस् +++(Bhatt. vāyuḥ)+++
तौ नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्र सुमतिं सवितर्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र सुमतिं सवितर् वाय ऊतये
महस्वन्तं मत्सरं मादयेथाम् ।
अर्वाग् वामस्य प्रवता नि यच्छथस्
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र सुमतिं सवितर् वाय ऊतये
महस्वन्तं मत्सरं मादयेथाम् ।
अर्वाग् वामस्य प्रवता नि यच्छथस्
तौ नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०५ रयिं मे पोषम्
विश्वास-प्रस्तुतिः ...{Loading}...
रयिं मे पोषं सवितोत वायुस्
तनू दक्षम् आ सुवतां सुशेवम् ।
अयक्ष्मतां महो अस्मासु धत्तं
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
रयिं मे पोषं सवितोत वायुस्
तनू दक्षम् आ सुवतां सुशेवम् ।
अयक्ष्मतां महो अस्मासु धत्तं
तौ नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०६ अपेतो वायो सविता
विश्वास-प्रस्तुतिः ...{Loading}...
अपेतो वायो सविता च दुष्कृतम् +++(Bhatt. vāyuḥ)+++
अप यक्ष्मं शिमिदां सेधतं परः ।
सं ह्य् ऊर्जा सृजथः सं बलेन +++(Bhatt. ūrjāḥ)+++
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपेतो वायो सविता च दुष्कृतम् +++(Bhatt. vāyuḥ)+++
अप यक्ष्मं शिमिदां सेधतं परः ।
सं ह्य् ऊर्जा सृजथः सं बलेन +++(Bhatt. ūrjāḥ)+++
तौ नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०७ उप श्रेष्ठा न
विश्वास-प्रस्तुतिः ...{Loading}...
उप श्रेष्ठा न आशिषो
देवयोर् धामन्न् अस्थिरन् ।
स्तौमि देवं सवितारं च वायुं
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उप श्रेष्ठा न आशिषो
देवयोर् धामन्न् अस्थिरन् ।
स्तौमि देवं सवितारं च वायुं
तौ नो मुञ्चतम् अंहसः ॥