०३३

सर्वाष् टीकाः ...{Loading}...

०१ अग्नेर् मन्वे प्रथमस्य

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नेर् मन्वे प्रथमस्य प्रचेतसः
पाञ्चजन्यस्य बहुधा यम् इन्धते ।
विशोविशः प्रविशिवांसम् ईमहे
स नो मुञ्चत्व् अंहसः ॥

०२ सुजातं जातवेदसम् अग्निम्

विश्वास-प्रस्तुतिः ...{Loading}...

सुजातं जातवेदसम्
अग्निं वैश्वानरं विभुम् ।
हव्यवाहं हवामहे
स नो मुञ्चत्व् अंहसः ॥

०३ यथा हव्यं वहसि

विश्वास-प्रस्तुतिः ...{Loading}...

यथा हव्यं वहसि जातवेदो
यथा यज्ञं कल्पयसि प्रजानन् ।
एवा देवेभ्यः सुमतिम् इहा वह +++(Bhatt. sumatiṃ hy ā vaha)+++
स नो मुञ्चत्व् अंहसः ॥

०४ यामन्यामन्न् उपयुक्तं वहिष्ठम्

विश्वास-प्रस्तुतिः ...{Loading}...

यामन्यामन्न् उपयुक्तं वहिष्ठं
कर्मन्कर्मन्न् आभगम् ।
अग्निम् ईडे रक्षोहणं
यज्ञवृधं घृताहुतं
स नो मुञ्चत्व् अंहसः ॥

०५ येन र्षयो वलम्

विश्वास-प्रस्तुतिः ...{Loading}...

येन र्षयो वलम् अद्योतयन् युजा
येनासुराणाम् अयुवन्त मायाः ।
येनाग्निना पणीन् इन्द्रो जिगाय
स नो मुञ्चत्व् अंहसः ॥

०६ येन देवा अमृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

येन देवा अमृतम् अन्वविन्दन्
येनौषधीर् मधुमतीर् अकृण्वन् ।
येनेदं स्वर् आभरन्
स नो मुञ्चत्व् अंहसः ॥

०७ यस्येदं प्रदिशि यद्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्येदं प्रदिशि यद् विरोचते
यज् जातं जनितव्यं च केवलम् ।
स्तौम्य् अग्निं नाथितो जोहवीमि
स नो मुञ्चत्व् अंहसः ॥