०३२

सर्वाष् टीकाः ...{Loading}...

०१ यस् ते मन्यो

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते मन्यो ऽविधद् वज्र सायक
सह ओजः पुष्यति विश्वम् आनुषक् ।
साह्याम दासम् आर्यं त्वया युजा
वयं सहस्कृतेन सहसा सहीयसा ॥

०२ मन्युर् इन्द्रो मन्युर्

विश्वास-प्रस्तुतिः ...{Loading}...

मन्युर् इन्द्रो मन्युर् एवास देवो
मन्युर् होता वरुणो जातवेदाः ।
मन्युर् विश ईडते मानुषीर् याः
पाहि नो मन्यो तपसा सजोषाः ॥

०३ अभीहि मन्यो तवसस्

विश्वास-प्रस्तुतिः ...{Loading}...

अभीहि मन्यो तवसस् तवीयान्
तपसा युजा वि जहि शत्रून् ।
अमित्रहा वृत्रहा दस्युहा च
विश्वा वसून्य् आ भरा त्वं नः ॥

०४ त्वं हि मन्यो

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं हि मन्यो अभिभूत्योजाः
स्वयम्भूर् भामो अभिमातिषाहः ।
विश्वचर्षणिः सहुरिः सहीयाँ
अस्मास्व् ओजः पृतनासु धेहि ॥

०५ अभागः सन्न् अप

विश्वास-प्रस्तुतिः ...{Loading}...

अभागः सन्न् अप परेतो अस्मि
तव क्रत्वा तविषस्य प्रचेतः ।
तं त्वा मन्यो अक्रतुर् जिहीडाहं
स्वा तनूर् बलदावा न एहि ॥

०६ अयं ते अस्म्य्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं ते अस्म्य् उप न एह्य् अर्वाङ्
प्रतीचीनः सहुरे विश्वदावन् ।
मन्यो वज्रिन्न् उप न आ ववृत्स्व
हनाव दस्यूंर् उत बोध्य् आपे ॥

०७ अभि प्रेहि दक्षिणतो

विश्वास-प्रस्तुतिः ...{Loading}...

अभि प्रेहि दक्षिणतो भवा नो
अधा वृत्राणि जङ्घनाव भूरि ।
जुहोमि ते धरुणो मध्वो अग्रम्
उभा उपांशु प्रथमा पिबेव ॥