०३१

सर्वाष् टीकाः ...{Loading}...

०१ प्रातर् अग्निं प्रातर्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रातर् अग्निं प्रातर् इन्द्रं हवामहे
प्रातर् मित्रावरुणा प्रातर् अश्विना ।
प्रातर् भगं पूषणं ब्रह्मणस्पतिं
प्रातः सोमम् उत रुद्रं हुवेम ॥

०२ प्रातर्जितं भगम् उग्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रातर्जितं भगम् उग्रं हुवेम
वयं पुत्रम् अदितेर् यो विधर्ता ।
आध्रश् चिद् यं मन्यमानस् तुरश् चिद्
राजा चिद् यं भगं भक्षीत्य् आह ॥

०३ भग प्रणेतर् भग

विश्वास-प्रस्तुतिः ...{Loading}...

भग प्रणेतर् भग सत्यराधो
भगेमां धियम् उद् अवा ददन् नः ।
भग प्र णो जनय गोभिर् अश्वैर्
भग प्र नृभिर् नृवन्तः स्याम ॥

०४ उतेदानीं भगवन्तः स्याम

विश्वास-प्रस्तुतिः ...{Loading}...

उतेदानीं भगवन्तः स्याम-
-उत प्रपित्व उत मध्ये अह्नाम् ।
उतोदिते मघवन् सूर्ये
वयं देवानां सुमतौ स्याम ॥

०५ भग एव भगवाम्

विश्वास-प्रस्तुतिः ...{Loading}...

भग एव भगवाꣳ अस्तु देवास्
तेन वयं भगवन्तः स्याम ।
तं त्वा भग सर्व इज् जोहवीति
स नो भग पुरएता भवेह ॥

०६ सम् अध्वरायोषसो नमन्त

विश्वास-प्रस्तुतिः ...{Loading}...

सम् अध्वरायोषसो नमन्त
दधिक्रावेव शुचये पदाय ।
अर्वाचीनं वसुविदं भगं नो
रथम् इवाश्वा वाजिन आ वहन्तु ॥

०७ अश्वावतीर् गोमतीर् न

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वावतीर् गोमतीर् न उषासो
वीरवतीः सदम् उच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता
यूयं पात स्वस्तिभिः सदा नः ॥