०२९

सर्वाष् टीकाः ...{Loading}...

०१ अप नः शोशुचद्

विश्वास-प्रस्तुतिः ...{Loading}...

अप नः शोशुचद् अघम् ।
अग्ने शुशुग्ध्य् आ रयिम् ॥

०२ अप नः शोशुचद्

विश्वास-प्रस्तुतिः ...{Loading}...

अप नः शोशुचद् अघम् ।
सुक्षेत्रिया सुगातुया
वसूया च यजामहे ॥

०३ अप नः शोशुचद्

विश्वास-प्रस्तुतिः ...{Loading}...

अप नः शोशुचद् अघम् ।
प्र यद् भन्दिष्ठ एषां
प्रास्माकासश् च सूरयः ॥

०४ अप नः शोशुचद्

विश्वास-प्रस्तुतिः ...{Loading}...

अप नः शोशुचद् अघम् ।
प्र यत् ते अग्ने सूरयो
जायेमहि प्र ते वयम् ॥

०५ अप नः शोशुचद्

विश्वास-प्रस्तुतिः ...{Loading}...

अप नः शोशुचद् अघम् ।
प्र यद् अग्नेः सहस्वतो
विश्वतो यन्ति भानवः ॥

०६ अप नः शोशुचद्

विश्वास-प्रस्तुतिः ...{Loading}...

अप नः शोशुचद् अघम् ।
त्वं हि विश्वतोमुख
विश्वतः परिभूर् असि ॥

०७ अप नः शोशुचद्

विश्वास-प्रस्तुतिः ...{Loading}...

अप नः शोशुचद् अघम् ।
द्विषो नो विश्वतोमुख-
-अति नावेव पारय ॥