सर्वाष् टीकाः ...{Loading}...
०१ दिवस् पृष्ठे मधुपृचः
विश्वास-प्रस्तुतिः ...{Loading}...
दिवस् पृष्ठे मधुपृचः सुपर्णाः
पञ्चाशत् ते भुवनस्य गोपाः ।
आनुजावरम् अनु रक्षन्त उग्रा
येषाम् इन्द्रं वीर्यायैरयन्त ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवस् पृष्ठे मधुपृचः सुपर्णाः
पञ्चाशत् ते भुवनस्य गोपाः ।
आनुजावरम् अनु रक्षन्त उग्रा
येषाम् इन्द्रं वीर्यायैरयन्त ॥
सर्वाष् टीकाः ...{Loading}...
०२ पुरोहितः परमेष्ठी स्वराज्याय
विश्वास-प्रस्तुतिः ...{Loading}...
पुरोहितः परमेष्ठी स्वराज्याय- +++(Bhatt. svarāḍ jyāyābhī-)+++
-अभीवर्धम् अस्मा अकृणोद् बृहस्पतिः ।
तेन सपत्नान् अधरान् कृणुष्व
क्षेमे पशून् बहुलान् वर्धयित्वा
जैत्रायोद् यातु रथवाहनं ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुरोहितः परमेष्ठी स्वराज्याय- +++(Bhatt. svarāḍ jyāyābhī-)+++
-अभीवर्धम् अस्मा अकृणोद् बृहस्पतिः ।
तेन सपत्नान् अधरान् कृणुष्व
क्षेमे पशून् बहुलान् वर्धयित्वा
जैत्रायोद् यातु रथवाहनं ते ॥
सर्वाष् टीकाः ...{Loading}...
०३ गोभाजम् अंशं तव
विश्वास-प्रस्तुतिः ...{Loading}...
गोभाजम् अंशं तव ये समानाः +++(Bhatt. aṃsaṃ)+++
सर्वे समग्रा दधृग् आभरन्त ।
अभि वर्धस्व भ्रातृव्यान्
अभि ये त्वा पृतन्यतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
गोभाजम् अंशं तव ये समानाः +++(Bhatt. aṃsaṃ)+++
सर्वे समग्रा दधृग् आभरन्त ।
अभि वर्धस्व भ्रातृव्यान्
अभि ये त्वा पृतन्यतः ॥
सर्वाष् टीकाः ...{Loading}...
०४ नि पिण्ढि सर्वान्
विश्वास-प्रस्तुतिः ...{Loading}...
नि पिण्ढि सर्वान् धूर्वतो
ऽभीवर्धो यथाससि ।
अभीवर्धम् अभीभवम् +++(Bhatt. abhīvargham)+++
अभीषेणं महागणम् ।
विशस् त्वा सर्वा आ यन्त्व्
आपो दिव्याः पयस्वतीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नि पिण्ढि सर्वान् धूर्वतो
ऽभीवर्धो यथाससि ।
अभीवर्धम् अभीभवम् +++(Bhatt. abhīvargham)+++
अभीषेणं महागणम् ।
विशस् त्वा सर्वा आ यन्त्व्
आपो दिव्याः पयस्वतीः ॥
सर्वाष् टीकाः ...{Loading}...
०५ अभि वर्धस्व प्रजया
विश्वास-प्रस्तुतिः ...{Loading}...
अभि वर्धस्व प्रजया वावृधानो
अभ्य् अनीकैः पशुभिर् भवासि । +++(Bhatt. bhavāti)+++
ब्रह्मराजन्यैर् विश्यैर् वावृधानः +++(Bhatt. brahma rājanyair viśvair)+++
शूद्रैर् अतीहि सभया पृतन्यतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि वर्धस्व प्रजया वावृधानो
अभ्य् अनीकैः पशुभिर् भवासि । +++(Bhatt. bhavāti)+++
ब्रह्मराजन्यैर् विश्यैर् वावृधानः +++(Bhatt. brahma rājanyair viśvair)+++
शूद्रैर् अतीहि सभया पृतन्यतः ॥
सर्वाष् टीकाः ...{Loading}...
०६ वर्धस्व क्षेत्रैः प्रथस्व
विश्वास-प्रस्तुतिः ...{Loading}...
वर्धस्व क्षेत्रैः प्रथस्व प्रजया
वर्धस्व वीरैः पशुभिर् बहुर् भव ।
श्रिया शुल्कैर् यतमस् त्वा पृतन्याद् +++(Bhatt. śuklair)+++
आप्तस् तुभ्यं स बलिहृत्याय तिष्ठतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्धस्व क्षेत्रैः प्रथस्व प्रजया
वर्धस्व वीरैः पशुभिर् बहुर् भव ।
श्रिया शुल्कैर् यतमस् त्वा पृतन्याद् +++(Bhatt. śuklair)+++
आप्तस् तुभ्यं स बलिहृत्याय तिष्ठतु ॥