०२६

सर्वाष् टीकाः ...{Loading}...

०१ कन्या वार् अवायती

विश्वास-प्रस्तुतिः ...{Loading}...

कन्या वार् अवायती
सोमम् अपि स्रुताविदत् । (Bhatt. śrutāvidat)
अस्तं भरन्त्य् अब्रवीद्
इन्द्राय सुनोमि त्वा
शक्राय सुनोमि त्वा ॥

०२ असौ य एषि

विश्वास-प्रस्तुतिः ...{Loading}...

असौ य एषि वीरको
गृहंगृहं विचाकशत् ।
इमं जम्भसुतं पिब
धानावन्तं करम्भिणम्
अपूपवन्तम् उक्थिनम् ॥

०३ कुविच् छकत् कुवित्

विश्वास-प्रस्तुतिः ...{Loading}...

कुविच् छकत् कुवित् करत्
कुविन् नो वस्यसस् करत् ।
कुवित् पतिद्विषो यतीर् (Bhatt. patidvito)
इन्द्रेण सं गमामहै ॥

०४ आ चन त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

आ चन त्वा चिकित्सामो
ऽधि चन त्वा नेमसि ।
शनैर् इव शनकैर् इव-
-इन्द्रायेन्दो परि स्रव ॥

०५ इमानि त्रीणि विष्टपा

विश्वास-प्रस्तुतिः ...{Loading}...

इमानि त्रीणि विष्टपा
तानीन्द्र वि रोहय ।
शिरस् ततस्योर्वराम्
आद् इदं म उपोदरे ॥

०६ असौ च या

विश्वास-प्रस्तुतिः ...{Loading}...

असौ च या न उर्वरा-
-आद् इमां तन्वं मम ।
अथो ततस्य यच् छिरः
सर्वा ता रोमशा कृधि ॥

०७ खे रथस्य खे

विश्वास-प्रस्तुतिः ...{Loading}...

खे रथस्य खे ऽनसः
खे युगस्य शतक्रतो ।
अपालाम् इन्द्र त्रिष् पूत्व्य्
अकृणोः सूर्यत्वचम् ॥