०२५

सर्वाष् टीकाः ...{Loading}...

०१ वाताज् जातो अन्तरिक्षाद्

विश्वास-प्रस्तुतिः ...{Loading}...

वाताज् जातो अन्तरिक्षाद्
विद्युतो ज्योतिषस् परि ।
स नो हिरण्यजाः शङ्खः
कृशनः पात्व् अंहसः ॥

०२ हिरण्यानाम् एको ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यानाम् एको ऽसि
सोमाद् अधि जज्ञिषे ।
रथे ऽसि दार्शत
इषुधौ रोचनस् त्वम् ॥

०३ यो अग्रतो रोचनावान्

विश्वास-प्रस्तुतिः ...{Loading}...

यो अग्रतो रोचनावान्
समुद्राद् अधि जज्ञिषे ।
शङ्खेन हत्वा रक्षांस्य्
अत्रिणो वि षहामहे ॥

०४ ये अत्रिणो यातुधाना

विश्वास-प्रस्तुतिः ...{Loading}...

ये अत्रिणो यातुधाना
रक्षसो ये किमीदिनः ।
सर्वाञ् छङ्ख त्वया वयं
विषूचो वि षहामहे ॥

०५ शङ्खेनामीवाम् अमतिं शङ्खेनोत

विश्वास-प्रस्तुतिः ...{Loading}...

शङ्खेनामीवाम् अमतिं
शङ्खेनोत सदान्वाः ।
शङ्खो नो विश्वभेषजः
कृशनः पात्व् अंहसः ॥ (Bhatt. aṃhasaṃ)

०६ दिवि जातः समुद्रतः

विश्वास-प्रस्तुतिः ...{Loading}...

दिवि जातः समुद्रतः
सिन्धुतस् पर्य् आभृतः ।
स नो हिरण्यजाः शङ्ख
आयुष्प्रतरणो मणिः ॥

०७ देवानाम् अस्थि कृशनम्

विश्वास-प्रस्तुतिः ...{Loading}...

देवानाम् अस्थि कृशनं बभूव
तद् आत्मन्वच् चरत्य् अप्स्व् अन्तः ।
तं ते बध्नाम्य् आयुषे वर्चस
ओजसे च बलाय च
कार्शनस् त्वाभि रक्षतु ॥