०२४

सर्वाष् टीकाः ...{Loading}...

०१ अपश् च रपश्

विश्वास-प्रस्तुतिः ...{Loading}...

अपश् च रपश् च-
-ऊष्मा च बाष्पश् च ।
शोकश् चाभिशोकश् च (Bhatt. -bhīśok-)
तृतीयेकश् च परेपरश् च
तक्मान इतो नश्यत ॥

०२ वेद वै ते

विश्वास-प्रस्तुतिः ...{Loading}...

वेद वै ते तक्मन् नाम-
-अग्निष् ट्वं नामासि । (Bhatt. ṭaṃ)
तं त्वेतो वि नयामः शनि तक्मा ॥ (Bhatt. tvetopa)

०३ वृत्रस्य हरो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

वृत्रस्य हरो ऽसि नभसो नपात् ।
द्यौश् चास्मत् पृथिवी च
तक्मानं नाशयताम् इतः ॥

०४ पञ्चप्सिनिर् नाम ते

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्चप्सिनिर् नाम ते माता
स उ एकप्सिनिर् उच्यसे ।
तस्याहं वेद ते नाम
स तक्मन् निर् अतो द्रव ॥

०५ औदुम्बरश् च नामासि

विश्वास-प्रस्तुतिः ...{Loading}...

औदुम्बरश् च नामासि (Bhatt. audumbalaś)
प्रियातिथिश् च ।
तं त्वेतो नाशयामसि
ब्रह्मणा वीर्यावता ॥

०६ यो ऽसि जल्पंश्

विश्वास-प्रस्तुतिः ...{Loading}...

यो ऽसि जल्पंश् च लपंश् च-
-आवां च तपंश् च ।
तृतीयेकश् च मौञ्जिगलश् च
ते तक्मान इतो नश्यत ॥

०७ विकिलीद विलोहित विकाशक्रन्दरज्जन

विश्वास-प्रस्तुतिः ...{Loading}...

विकिलीद विलोहित (Bhatt. vikilīta)
विकाशक्रंदरज्जन ।
गिरिं गच्छ धूमकेतो
हृषे नमांसि सन्तु ते ॥

०८ बृहत् त्वम् अग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

बृहत् त्वम् अग्ने रक्षो अधमं जहि
मध्यमं न्य् उत्तमं शृणीहि ।
शं नो अग्निर् ज्योतिरनीको अस्तु
शं द्यावापृथिवी अनेहसा ॥

०९ मातेव पितेवाभि रक्षतैनम्

विश्वास-प्रस्तुतिः ...{Loading}...

मातेव पितेवाभि रक्षतैनं
मुञ्चतैनं पर्य् अंहसः ॥