सर्वाष् टीकाः ...{Loading}...
०१ प्रजापतिष् ट्वा बध्नात्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापतिष् ट्वा बध्नात् प्रथमम्
अस्तृतं वीर्याय कम् ।
तं ते बध्नाम्य् आयुषे वर्चस
ओजसे च बलाय च-
-अस्तृतस् त्वाभि रक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापतिष् ट्वा बध्नात् प्रथमम्
अस्तृतं वीर्याय कम् ।
तं ते बध्नाम्य् आयुषे वर्चस
ओजसे च बलाय च-
-अस्तृतस् त्वाभि रक्षतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ ऊर्ध्वस् तिष्ठ रक्षन्न्
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ध्वस् तिष्ठ रक्षन्न् अप्रमादम् अस्तृतेमं
मा त्वा दभन् पणयो यातुधानाः ।
इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः
सर्वाञ् छत्रून् वि षहस्व-
-अस्तृतस् त्वाभि रक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्ध्वस् तिष्ठ रक्षन्न् अप्रमादम् अस्तृतेमं
मा त्वा दभन् पणयो यातुधानाः ।
इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः
सर्वाञ् छत्रून् वि षहस्व-
-अस्तृतस् त्वाभि रक्षतु ॥
सर्वाष् टीकाः ...{Loading}...
०३ शतं चन प्रहरन्तो
विश्वास-प्रस्तुतिः ...{Loading}...
शतं चन प्रहरन्तो
ऽभिघ्नन्तो न तस्त्रिरे । (Bhatt. tastire)
तस्मिन्न् इन्द्रः पर्य् अदत्त (Bhatt. adhatta)
चक्षुः प्राणम् अथो बलम्
अस्तृतस् त्वाभि रक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं चन प्रहरन्तो
ऽभिघ्नन्तो न तस्त्रिरे । (Bhatt. tastire)
तस्मिन्न् इन्द्रः पर्य् अदत्त (Bhatt. adhatta)
चक्षुः प्राणम् अथो बलम्
अस्तृतस् त्वाभि रक्षतु ॥
सर्वाष् टीकाः ...{Loading}...
०४ इन्द्रस्य त्वा वर्मणा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस्य त्वा वर्मणा परि धापयामो
यो देवानाम् अधिराजो बभूव ।
पुरस् त्वा देवाः प्र णयन्तु सर्वे
ऽस्तृतस् त्वाभि रक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस्य त्वा वर्मणा परि धापयामो
यो देवानाम् अधिराजो बभूव ।
पुरस् त्वा देवाः प्र णयन्तु सर्वे
ऽस्तृतस् त्वाभि रक्षतु ॥
सर्वाष् टीकाः ...{Loading}...
०५ अस्मिन् मणाव् एकशतम्
विश्वास-प्रस्तुतिः ...{Loading}...
अस्मिन् मणाव् एकशतं वीर्याणि
सहस्रं प्राणा अस्मिन्न् अस्तृते ।
व्याघ्रः शत्रून् अधि तिष्ठ सर्वान्
यस् त्वा पृतन्याद् अधरः सो ऽस्त्व्
अस्तृतस् त्वाभि रक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्मिन् मणाव् एकशतं वीर्याणि
सहस्रं प्राणा अस्मिन्न् अस्तृते ।
व्याघ्रः शत्रून् अधि तिष्ठ सर्वान्
यस् त्वा पृतन्याद् अधरः सो ऽस्त्व्
अस्तृतस् त्वाभि रक्षतु ॥
सर्वाष् टीकाः ...{Loading}...
०६ घृताद् उल्लुप्तो मधुमान्
विश्वास-प्रस्तुतिः ...{Loading}...
घृताद् उल्लुप्तो मधुमान् पयस्वान् (Bhatt. ulapto)
सहस्रप्राणः शतयोनिर् वयोधाः । (Bhatt. sahasraṃ prāṇaḥ)
शम्भूश् च मयोभूश् च-
-ऊर्जस्वांश् च पयस्वांश् च-
-अस्तृतस् त्वाभि रक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
घृताद् उल्लुप्तो मधुमान् पयस्वान् (Bhatt. ulapto)
सहस्रप्राणः शतयोनिर् वयोधाः । (Bhatt. sahasraṃ prāṇaḥ)
शम्भूश् च मयोभूश् च-
-ऊर्जस्वांश् च पयस्वांश् च-
-अस्तृतस् त्वाभि रक्षतु ॥
सर्वाष् टीकाः ...{Loading}...
०७ यथा त्वम् उत्तरो
विश्वास-प्रस्तुतिः ...{Loading}...
यथा त्वम् उत्तरो असो
असपत्नः सपत्नहा ।
सजातानाम् असो वशी
तथा त्वा सविता करद्
अस्तृतस् त्वाभि रक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा त्वम् उत्तरो असो
असपत्नः सपत्नहा ।
सजातानाम् असो वशी
तथा त्वा सविता करद्
अस्तृतस् त्वाभि रक्षतु ॥