०२२

सर्वाष् टीकाः ...{Loading}...

०१ अहं वा इन्द्रमातरम्

विश्वास-प्रस्तुतिः ...{Loading}...

अहं वा इन्द्रमातरम्
इन्द्रौजाम् इन्द्रभ्रातरम् ।
इन्द्राधिवक्त्रां वीरुधम्
आहार्षं विषदूषणीम् ॥

०२ यत् किं च

विश्वास-प्रस्तुतिः ...{Loading}...

यत् किं च पद्वच् छफवद्
यत् काण्डि यच् च पुष्पवत् ।
यद् एजति प्रजापतिः
सर्वं तद् विषदूषणम् ॥

०३ सिन्धुः पश्चाद् धरुणः

विश्वास-प्रस्तुतिः ...{Loading}...

सिन्धुः पश्चाद् धरुणः
सूर्यस्योदयनं पुरः ।
ततो यद् अन्तरा विषं
तद् वाचा दूषयामसि ॥

०४ यावत् सूर्यो वितपति

विश्वास-प्रस्तुतिः ...{Loading}...

यावत् सूर्यो वितपति
यावच् चाभि विपश्यति ।
तावद् विषस्य दूषणं
वचो निर् मन्त्रयामहे ॥

०५ जिह्वा मे मधुसंस्रावा

विश्वास-प्रस्तुतिः ...{Loading}...

जिह्वा मे मधुसंस्रावा
जिह्वा मे मधुवादिनी ।
जिह्वे वर्चस्वती भव
मायं मे पुरुषो रिषत् ॥ (Bhatt. māpa te)

०६ हा है कल्याणि

विश्वास-प्रस्तुतिः ...{Loading}...

हा है कल्याणि सुभगे
पृश्निपर्ण्य् अनातुरे ।
इमं मे अद्य पूरुषं
दीर्घायुत्वायोन् नय ॥

०७ याभ्यो वर्षन्ति वृष्टयो

विश्वास-प्रस्तुतिः ...{Loading}...

याभ्यो वर्षन्ति वृष्टयो
याभिर् जीवन्त्य् अघ्न्याः ।
ता मे विषस्य दूषणीः
सविता व्य् अकाशयत् ॥