०२०

सर्वाष् टीकाः ...{Loading}...

०१ मधुमती पत्ये अस्मि

विश्वास-प्रस्तुतिः ...{Loading}...

मधुमती पत्ये अस्मि
जाराय मधुमत्तरा ।
अथो मधव्यं मे भंसो
मधु निपदने अहम् ॥

०२ मधुना मा सम्

विश्वास-प्रस्तुतिः ...{Loading}...

मधुना मा सं सृजामि
मासरेण सुराम् इव । +++(Bhatt. surā)+++
वाङ् म इयं मधुना संसृष्टा-
-अक्ष्यौ मे मधुसंदृशी ॥ +++(Bhatt. akṣau)+++

०३ मधु द्यौर् मधु

विश्वास-प्रस्तुतिः ...{Loading}...

मधु द्यौर् मधु पृथिवी
मध्व् इन्द्रो मधु सूर्यः ।
स्त्रियो या जज्ञिरे मधु
ताभ्यो ऽहं मधुमत्तरा ॥

०४ मधुमतीर् ओषधय आपो

विश्वास-प्रस्तुतिः ...{Loading}...

मधुमतीर् ओषधय
आपो मधुमतीर् उत ।
गावो या जज्ञिरे मधु
ताभ्यो ऽहं मधुमत्तरा ॥

०५ मधोर् जातो मधुघो

विश्वास-प्रस्तुतिः ...{Loading}...

मधोर् जातो मधुघो
वीरुधां बलवत्तमः ।
तेनाहं सर्वस्मै पुंसे
कृण्वे निकरणं हृदि ॥

०६ यथाश्वो बन्धनेष्ठो वडवाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथाश्वो बन्धनेष्ठो +++(Bhatt. yathāśva is misprint)+++
वडवाम् अभिधावति ।
एवा त्वम् उग्र ओषधे
ऽमुं कनिक्रदतम् आ नय ॥

०७ अङ्गो नु मोद्

विश्वास-प्रस्तुतिः ...{Loading}...

अङ्गो नु मोद् इव श्वसो
अङ्गो नु मोद् इव स्तनः ।
अन्या विवित्समानो
अन्याः पराजिघांसन् ।
माम् अनु प्र ते मनश्
छाया यन्तम् इवान्व् अयत् ॥ +++(Bhatt. yantum)+++