०१८

सर्वाष् टीकाः ...{Loading}...

०१ व्रातम् अहम् अपक्ष्णानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

व्रातम् अहम् अपक्ष्णानां
व्रातं मुण्डीयसाम् उत ।
व्रातं मुण्डिव्लानाम् अहं
प्र ध्वाङ्क्षाँ इव चातये ॥

०२ प्रवक्ता प्रमादयिता निद्रा

विश्वास-प्रस्तुतिः ...{Loading}...

प्रवक्ता प्रमादयिता +++(emend. Bhatt., ed. pramādaitā)+++
निद्रा तन्द्रीस् तृतीयकः ।
ताञ् जङ्गिडस्याग्निना +++(Bhatt. tān)+++
सर्वान् प्रति दहामसि॥

०३ अशुद्धान् नः परि

विश्वास-प्रस्तुतिः ...{Loading}...

अशुद्धान् नः परि पाहि
रक्षोभ्य उत जङ्गिड ।
यातुधानात् किमीदिनस्
तस्मान् नः पाहि जङ्गिड ॥

०४ अप्सराभ्यो गन्धर्वेभ्यो देवेभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

अप्सराभ्यो गन्धर्वेभ्यो
देवेभ्यो असुरेभ्यः ।
अथो सर्वस्मात् पाप्मनस्
तस्मान् नः पाहि जङ्गिड ॥

०५ नि ते शत्रून्

विश्वास-प्रस्तुतिः ...{Loading}...

नि ते शत्रून् दहति देवो अग्निर्
निर् अरातिम् अमतिं यातुधानान् ।
आ याहि शत्रून् दुरितापघ्नञ्
छतान् नो यक्ष्मेभ्यः परि पाहि जङ्गिड ॥

०६ अकर्माग्निम् अधिपाम् अस्य

विश्वास-प्रस्तुतिः ...{Loading}...

अकर्माग्निम् अधिपाम् अस्य देवम्
अन्वारप्स्व सहसा दैव्येन । +++(thus with K; Bhatt. anvā rapsi)+++
सहस्वान् नः सहसा पातु जङ्गिडो
यथा जयेम पृतनाज्येषु ॥

०७ सत्यो अग्निः सत्या

विश्वास-प्रस्तुतिः ...{Loading}...

सत्यो अग्निः सत्या आपः
सत्ये मे द्यावापृथिवी विश्वशंभुवौ । +++(Bhatt. -saṃbhuvau ।)+++
सत्यम् इदं ब्रह्मास्माकं कृतम् अस्तु
यम् अबध्नाद् उशनेन्द्राय
तं ते बध्नामि जङ्गिडम् ॥