०१७

सर्वाष् टीकाः ...{Loading}...

०१ य आनतः पराणतो

विश्वास-प्रस्तुतिः ...{Loading}...

य आनतः पराणतो
दारोर् इवापतक्षणम् ।
शर्कोटो नाम वा असि
कुतस् त्वं विषवान् असः ॥

०२ य उभयेन प्रहरसि

विश्वास-प्रस्तुतिः ...{Loading}...

य उभयेन प्रहरसि
पुच्छेन चास्येन च ।
आस्ये चन ते विषं
कुतस् ते पुच्छधाव् असत् ॥

०३ विदुत्सुरस्य दानवस्य तस्य

विश्वास-प्रस्तुतिः ...{Loading}...

विदुत्सुरस्य दानवस्य
तस्य त्वं नपाद् असि ।
तस्याग्रे ऽरसं विषं
ततस् तवारसं विषम् ॥ (Bhatt. tuvārasaṃ)

०४ अरसारसं त्वाकरं वध्रे

विश्वास-प्रस्तुतिः ...{Loading}...

अरसारसं त्वाकरं
वध्रे वध्रिं त्वाकरम् ।
वध्रिं त्वा चक्रुर् देवा
अमृतास आसुरम् ॥

०५ इयत्तकः कुषुम्भकस् तकम्

विश्वास-प्रस्तुतिः ...{Loading}...

इयत्तकः कुषुम्भकस्
तकं भिनद्मि शम्यया ।
ततो विषं परासिचम्
अपाचीम् अनु संवतम् ॥

०६ इमाः पश्चा मयूर्यः

विश्वास-प्रस्तुतिः ...{Loading}...

इमाः पश्चा मयूर्यः
सप्त स्वसारो अग्रुवः ।
तास् ते विषं वि जह्रिर
उदकं कुम्भिनीर् इव
कूपात् कुलिजिनीर् इव ॥ (Bhatt. kulajanīr)

०७ नवानां नवतीनाम् इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

नवानां नवतीनाम् इत्य् एक ॥ (PS 3.9.7 is repeated)