०१६

सर्वाष् टीकाः ...{Loading}...

०१ उद्यन्न् आदित्यो घुणान्

विश्वास-प्रस्तुतिः ...{Loading}...

उद्यन्न् आदित्यो घुणान् हन्तु
सूर्यो निम्रोचन् रश्मिभिर् हन्तु ।
तावन् नो अभिसंहितम् ॥

०२ अप्सरा मूलम् अखनद्

विश्वास-प्रस्तुतिः ...{Loading}...

अप्सरा मूलम् अखनद्
गन्धर्वः पर्य् अब्रवीत् ।
तेन वो वृत्रहा सूर्यो
नि जम्भ्याँ अमृतद् घुणाः ॥ +++(Bhatt. jambhyāṃ amrucad* ghuṇān+)+++

०३ घुणान् हन्त्व् आयती

विश्वास-प्रस्तुतिः ...{Loading}...

घुणान् हन्त्व् आयती
घुणान् हन्तु परायती ।
घुणान् अवघ्नती हन्तु
घुणान् पिनष्टु पिंषती ॥

०४ घुणा न किम्

विश्वास-प्रस्तुतिः ...{Loading}...

घुणा न किं चनेह वः
प्रतिबुद्धा अभूतन ।
प्रदोषं तस्करा इव ॥

०५ घुणानां मध्यतो ज्येष्ठः

विश्वास-प्रस्तुतिः ...{Loading}...

घुणानां मध्यतो ज्येष्ठः
कनिष्ठ उत मध्यमः ।
हता वः सर्वे ज्ञातयो
हता माता हतः पिता ॥

०६ यथा फेन उदकेन

विश्वास-प्रस्तुतिः ...{Loading}...

यथा फेन उदकेन
ददृशानो निजस्यति ।
एवा वयं घुणान् सर्वान्
साकं वाचा नि जासयामसि ॥

०७ नि गावो गोष्ठे

विश्वास-प्रस्तुतिः ...{Loading}...

नि गावो गोष्ठे असदन्
नि मृगासो अविक्षत ।
नि त्वम् आदित्य रश्मिभिर् +++(Bhatt. nityam)+++
घुणान् सर्वाँ अजीजसः ॥

०८ उद्यन् रश्मीन् आ

विश्वास-प्रस्तुतिः ...{Loading}...

उद्यन् रश्मीन् आ तनुष्व
बाणवद्भिः सम् अर्पय । +++(Bhatt. vāṇavad-)+++
घुणांस् त्वं सर्वान् आदित्य
घोरया तन्वा तप ॥