०१४

सर्वाष् टीकाः ...{Loading}...

०१ यस्मिन्न् आशीः प्रतिहित

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मिन्न् आशीः प्रतिहित इदं तच्
छल्यो वेणुर् वेष्टनं तेजनं च ।
सूनुर् जनित्रीं जनयेहि शृण्वन्न्
अयं त आत्मेत इत् प्रहितः ॥ (Bhatt. ita)

०२ अस्थि भित्त्वा यदि

विश्वास-प्रस्तुतिः ...{Loading}...

अस्थि भित्त्वा यदि मज्ज्ञः पपाथ (Bhatt. prapātha)
यदि वासि रतः पुरुषन्तिकामे ।
उर्वीं गव्यूतिम् अभ्य् एह्य् अर्वाङ्
पश्चा रश्मीन् उद्यतः सूर्यस्य ॥

०३ मातरिश्वा पवमानस् त्वायन्

विश्वास-प्रस्तुतिः ...{Loading}...

मातरिश्वा पवमानस् त्वायन्
सूर्य आभ्राजन् तन्वा दृशे कः ।
अस्नो गन्धात् पुवसः प्र च्यवस्व
वि मुच्यस्व योन्या या ते अत्र ॥

०४ प्र च्यवस्वातो अभ्य्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र च्यवस्वातो अभ्य् एह्य् अर्वाङ् (Bhatt. adhy ehy)
अर्थांस् ते विद्म बहुधा बहिर् ये ।
इमाः स्वसारो अयम् इत् पिता त
इयं ते मातेमम् एहि बन्धुम् ॥

०५ अमित्रैर् अस्ता यदि

विश्वास-प्रस्तुतिः ...{Loading}...

अमित्रैर् अस्ता यदि वासि मित्रैर्
देवैर् वा देवि प्रहितावसृष्टा-
-आविद्धा शृङ्गं पुरुषे जहाथ ।
बाणः शृङ्गं शिखरः सं सताम् इतः ॥ (Bhatt. vāṇaḥ śṛṅgaḥ)

०६ शिखासु सक्तो यदि

विश्वास-प्रस्तुतिः ...{Loading}...

शिखासु सक्तो यदि वास्य् अग्रे (Bhatt. sikhāsu)
यदि वासि सक्तः पुरुषस्य मांसे ।
दधृङ् न पाशाꣳ अपवृज्य मुक्त्वा- (Bhatt. dadhir na; apavṛhya)
-अक्षिशल्यः कृणुताम् आयनाय ॥

०७ हस्ताद् धस्तं सम्

विश्वास-प्रस्तुतिः ...{Loading}...

हस्ताद् धस्तं सम् अयो भ्रियमाणो
बहिष् ट्वा पश्यान् वीरुधां बलेन ।
अद्भिः प्रणिक्तः शयासा अभ्यक्तः
कोशे जामीनां निहितो अहिंसः ॥

०८ षष्टिरात्रे षष्टिकस्य शल्यस्य

विश्वास-प्रस्तुतिः ...{Loading}...

षष्टिरात्रे षष्टिकस्य
शल्यस्य परिधिष् कृतः ।
इतस् तम् अद्य ते वयम्
आस्थानाच् च्यावयामसि ॥