०१३

सर्वाष् टीकाः ...{Loading}...

०१ शं नो देवी

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो देवी पृश्निपर्ण्य्
अशं निरृतये करत् ।
उग्रा हि कण्वजम्भनी
तां त्वाहार्षं सहस्वतीम् ॥

०२ सदान्वाघ्नी प्रथमा पृश्निपर्ण्य्

विश्वास-प्रस्तुतिः ...{Loading}...

सदान्वाघ्नी प्रथमा
पृश्निपर्ण्य् अजायत ।
तया कण्वस्याहं शिरश्
छिनद्मि शकुनेर् इव ॥

०३ ऊर्जभृतं प्राणभृतं प्रजानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जभृतं प्राणभृतं
प्रजानाम् उत तर्पणीम् ।
सर्वास् ताः पृश्निपर्णी-
-इतः कण्वा मा नीनशत् ॥ +++(for nīnaśat see Bhatt., footnote)+++

०४ समाकृत्यैना निर् अज

विश्वास-प्रस्तुतिः ...{Loading}...

समाकृत्यैना निर् अज
तीक्ष्णशृङ्ग इव ऋषभः ।
अरायं कण्वं पाप्मानं
पृश्निपर्णि सहस्वति ॥

०५ त्वम् उग्रे पृश्निपर्ण्य्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् उग्रे पृश्निपर्ण्य् +++(Bhatt. agre)+++
अग्निर् इव प्रदहन्न् इहि
कण्वा जीवितयोपनीः ।
गिरिम् एना आ वेशय
तमांसि यत्र गच्छांस्
तत् पापीर् अपि पादय ॥

०६ अरायम् असृक्पावानं यश्

विश्वास-प्रस्तुतिः ...{Loading}...

अरायम् असृक्पावानं
यश् च स्फातिं जिहीर्षति ।
गर्भादं कण्वं नाशय
पृश्निपर्णि सहस्वति ॥

०७ या नो गा

विश्वास-प्रस्तुतिः ...{Loading}...

या नो गा या नो गृहान् +++(Bhatt. gṛhāṃ)+++
या न स्फातिम् उपाहरान् । +++(Bhatt. yā naḥ)+++
ता उग्रे पृश्निपर्णि त्वं
कण्वा मा नीनश इतः ॥