सर्वाष् टीकाः ...{Loading}...
०१ त्वया मन्यो सरथम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वया मन्यो सरथम् आरुजन्तो
हर्षमाणासो हृषिता मरुत्वन् ।
तीक्ष्णेषव आयुधा संशिशाना
उप प्र यन्तु नरो अग्निरूपाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वया मन्यो सरथम् आरुजन्तो
हर्षमाणासो हृषिता मरुत्वन् ।
तीक्ष्णेषव आयुधा संशिशाना
उप प्र यन्तु नरो अग्निरूपाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ अग्निर् इव मन्यो
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निर् इव मन्यो तरसा सहस्व
सेनानीर् नः सहुरे हूत एधि ।
जित्वाय शत्रून् वि भजासि वेद
ओजो मिमानो वि मृधो नुदस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निर् इव मन्यो तरसा सहस्व
सेनानीर् नः सहुरे हूत एधि ।
जित्वाय शत्रून् वि भजासि वेद
ओजो मिमानो वि मृधो नुदस्व ॥
सर्वाष् टीकाः ...{Loading}...
०३ सहस्व मन्यो अभिमातिम्
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्व मन्यो अभिमातिम् अस्मे
रुजन् मृणन् प्रमृणन्न् एहि शत्रून् ।
उग्रं ते शर्धो नन्व् आ रुरुध्रे
वशी वशं नयासा एकज त्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्व मन्यो अभिमातिम् अस्मे
रुजन् मृणन् प्रमृणन्न् एहि शत्रून् ।
उग्रं ते शर्धो नन्व् आ रुरुध्रे
वशी वशं नयासा एकज त्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ एको बहूनाम् असि
विश्वास-प्रस्तुतिः ...{Loading}...
एको बहूनाम् असि मन्यव् ईडिता
पशून्पशून् युद्धाय सं शिशाधि ।
अकृत्तरुक् त्वया युजा वयं
द्युमन्तं घोषं विजयाय कृण्महे ॥
मूलम् ...{Loading}...
मूलम् (GR)
एको बहूनाम् असि मन्यव् ईडिता
पशून्पशून् युद्धाय सं शिशाधि ।
अकृत्तरुक् त्वया युजा वयं
द्युमन्तं घोषं विजयाय कृण्महे ॥
सर्वाष् टीकाः ...{Loading}...
०५ विजेषकृद् इन्द्र इवानवब्रवो
विश्वास-प्रस्तुतिः ...{Loading}...
विजेषकृद् इन्द्र इवानवब्रवो
ऽस्माकं मन्यो अधिपा भवेह ।
प्रियं ते नाम सहुरे गृणीमसि
विद्मा तम् उत्सं यत आबभूविथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
विजेषकृद् इन्द्र इवानवब्रवो
ऽस्माकं मन्यो अधिपा भवेह ।
प्रियं ते नाम सहुरे गृणीमसि
विद्मा तम् उत्सं यत आबभूविथ ॥
सर्वाष् टीकाः ...{Loading}...
०६ आभूत्या सहसा वज्र
विश्वास-प्रस्तुतिः ...{Loading}...
आभूत्या सहसा वज्र सायक
सहो बिभर्ष्य् अभिभूत उत्तरम् ।
क्रत्वा नो मन्यो सह मेद्य् एधि
महाधनस्य पुरुहूत संसृजि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आभूत्या सहसा वज्र सायक
सहो बिभर्ष्य् अभिभूत उत्तरम् ।
क्रत्वा नो मन्यो सह मेद्य् एधि
महाधनस्य पुरुहूत संसृजि ॥
सर्वाष् टीकाः ...{Loading}...
०७ संसृष्टं धनम् उभयम्
विश्वास-प्रस्तुतिः ...{Loading}...
संसृष्टं धनम् उभयं समाकृतम्
अस्मभ्यं दत्तं वरुणश् च मन्यो ।
भियो दधाना हृदयेषु शत्रवः
पराजिता यन्तु परमां परावतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
संसृष्टं धनम् उभयं समाकृतम्
अस्मभ्यं दत्तं वरुणश् च मन्यो ।
भियो दधाना हृदयेषु शत्रवः
पराजिता यन्तु परमां परावतम् ॥