०११

सर्वाष् टीकाः ...{Loading}...

०१ येनाचरद् उशना काव्यो

विश्वास-प्रस्तुतिः ...{Loading}...

येनाचरद् उशना काव्यो ऽग्रे
विद्वान् क्रतूनाम् उत देवतानाम् ।
सहृदयेन हविषा जुहोमि
सध्रीचीनं वो मनो ऽस्तूग्रम् ॥

०२ महत् सत्यं महद्

विश्वास-प्रस्तुतिः ...{Loading}...

महत् सत्यं महद् धविर्
उशना काव्यो महान् ।
देवानाम् उग्राणां सतां
हृदयानि सहाकरम् ॥

०३ अहं सत्येन सयुजा

विश्वास-प्रस्तुतिः ...{Loading}...

अहं सत्येन सयुजा चराम्य्
अहं देवीम् अनुमतिं प्र वेद ।
इन्द्रो देवानां हृदयं वो अस्तु
सध्रीचीनं वो मनो ऽस्तूग्रम् ॥

०४ त्वष्टा वायुः कश्यप

विश्वास-प्रस्तुतिः ...{Loading}...

त्वष्टा वायुः कश्यप इन्द्रम् अग्निर्
मनसान्व् आयन् हविषस् पदेन ।
अविन्दञ् छक्रं रजसि प्रविष्टं
सध्रीचीनं वो मनो ऽस्तूग्रम् ॥

०५ येनेमे द्यावापृथिवी विचष्कभुर्

विश्वास-प्रस्तुतिः ...{Loading}...

येनेमे द्यावापृथिवी विचष्कभुर्
येनाभवद् अन्तरिक्षं स्वर् यत् ।
मनसा विद्वान् हविषा जुहोमि
सध्रीचीनं वो मनो ऽस्तूग्रम् ॥

०६ द्यावापृथिवी हृदयं ससूवतुर्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावापृथिवी हृदयं ससूवतुर्
येनेदं त्वष्टा विकृणोति धीरः ।
तस्योशना क्रतुभिः संविदानश्
चित्तं विवेद मनसि प्रविष्टम् ॥

०७ चित्तं चैतद् आकूतिश्

विश्वास-प्रस्तुतिः ...{Loading}...

चित्तं चैतद् आकूतिश् च
येन देवा विषेहिरे ।
एतत् सत्यस्य श्रद्धया-
-अर्षयः सप्त जुह्वति ॥ (i.e. śraddhayarṣayaḥ, in sandhi for śraddhayā ṛṣayaḥ)