०१०

सर्वाष् टीकाः ...{Loading}...

०१ भगस् त्वेतो नयतु

विश्वास-प्रस्तुतिः ...{Loading}...

भगस् त्वेतो नयतु हस्तगृह्य
बृहस्पतिः पुरएता ते अस्तु ।
देवस् त्वा सविता सत्यधर्मा-
-उपसद्यां नमस्यां कृणोतु ॥

०२ याम् अश्विना मधुकशाम्

विश्वास-प्रस्तुतिः ...{Loading}...

याम् अश्विना मधुकशां
देवा अग्रे अजनयन् ।
तया त्वा पत्याम् ओतां
कृण्मो मधुमतीं वयम् ॥

०३ उत्तरा श्वश्रुवा भव

विश्वास-प्रस्तुतिः ...{Loading}...

उत्तरा श्वश्रुवा भव
ननान्दुर् उपशिक्षया ।
यशस् त्वा पत्यां कृण्मो
भवा देवृषु प्रिया ॥

०४ अद्भिर् आत्मानं तन्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

अद्भिर् आत्मानं तन्वं शुम्भमाना
गृहान् प्रेहि महिषी भवासि ।
तत्र त्वादुर् गार्हपत्याय देवाः
प्रजावती जरदष्टिर् यथासः ॥

०५ उद् उत्तरम् आरोहन्ती

विश्वास-प्रस्तुतिः ...{Loading}...

उद् उत्तरम् आरोहन्ती
व्यस्यन्ती पृतन्यतः ।
अभ्य् अष्ठाः शत्रोर् मूर्धानं
सहपुत्रा विराड् भव ॥

०६ श्वश्रूणां श्वशुराणां गृहाणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

श्वश्रूणां श्वशुराणां
गृहाणां च भगस्य च । +++(K and ĀpMP 1.6.7 have dhanasya ca ।)+++
वि राज पत्यां देवृषु
सजातानां विराड् भव ॥

०७ यद् गिरिषु पर्वतेषु

विश्वास-प्रस्तुतिः ...{Loading}...

यद् गिरिषु पर्वतेषु
गोष्व् अश्वेषु यन् मधु ।
येनाक्षा अभ्यषिच्यन्त
तेनाहम् अस्या मूर्धानम्
अभि षिञ्चामि नार्याः ॥

०८ यद् वर्चो गवि

विश्वास-प्रस्तुतिः ...{Loading}...

यद् वर्चो गवि कल्याणे
यद् वा सूयवसे तृणे ।
अभ्यञ्जनस्य यद् वर्चस्
तेन मानज्मि वर्चसा ॥