००९

सर्वाष् टीकाः ...{Loading}...

०१ संवसव इति वो

विश्वास-प्रस्तुतिः ...{Loading}...

संवसव इति वो नामधेयम्
उग्रंपश्या राष्ट्रभृतो ह्य् अक्षाः ।
तस्मै त इन्दो हविषा विधेम
वयं स्याम पतयो रयीणाम् ॥

०२ इदम् उग्राय बभ्रवे

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् उग्राय बभ्रवे
यो ऽक्षेषु तनूवशी ।
घृतेन कलिं शिक्षाणि
स नो मृडातीदृशे ॥

०३ घृतम् अग्ने अप्सराभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

घृतम् अग्ने अप्सराभ्यो वह त्वं
पांसून् अक्षेभ्यः सिकता अपश् च । +++(pāṃsūn with K; Bhatt. pāṃśūn)+++
यथाभगं हव्यदातिं जुषाणा
मदन्तु देवा उभयानि हव्या ॥

०४ यो नो देवो

विश्वास-प्रस्तुतिः ...{Loading}...

यो नो देवो धनम् इदं दिदेश
यो अक्षाणां ग्रहणं शेषणं च ।
स नो ऽवतु हविर् इदं जुषाणो
गन्धर्वैः सधमादं मदेम ॥

०५ या अप्सरसः सधमादम्

विश्वास-प्रस्तुतिः ...{Loading}...

या अप्सरसः सधमादं मदन्त्य्
अन्तरा हविर्धानं सूर्यं च ।
ता नो हस्तौ कृतेन सं सृजन्तु
सपत्नं नः कितवं रन्धयन्तु ॥

०६ यद् देवान् नाथितो

विश्वास-प्रस्तुतिः ...{Loading}...

यद् देवान् नाथितो हुवे
ब्रह्मचर्यं यद् ऊषिम ।
अक्षान् यद् बभ्रून् आलभे
ते नो मृडन्त्व् ईदृशे ॥

०७ आदिनवम् इत्य् एका

विश्वास-प्रस्तुतिः ...{Loading}...

आदिनवम् इत्य् एका ॥ +++(PS 1.72.4 is repeated)+++