सर्वाष् टीकाः ...{Loading}...
०१ अक्षीभ्यां ते नासिकाभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
अक्षीभ्यां ते नासिकाभ्यां
कर्णाभ्याम् आस्याद् उत ।
यक्ष्मं शीर्षण्यं मस्तिष्काल्
ललाटाद् वि वृहामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अक्षीभ्यां ते नासिकाभ्यां
कर्णाभ्याम् आस्याद् उत ।
यक्ष्मं शीर्षण्यं मस्तिष्काल्
ललाटाद् वि वृहामसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ ग्रीवाभ्यस् त उष्णिहाभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
ग्रीवाभ्यस् त उष्णिहाभ्यः
कीकसाभ्यो अनूक्यात् ।
यक्ष्मं दोषण्यम् अंसाभ्याम्
उरस्तो वि वृहामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ग्रीवाभ्यस् त उष्णिहाभ्यः
कीकसाभ्यो अनूक्यात् ।
यक्ष्मं दोषण्यम् अंसाभ्याम्
उरस्तो वि वृहामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ क्लोम्नस् ते हृदय्याभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
क्लोम्नस् ते हृदय्याभ्यो
हलीक्ष्णात् पार्श्वाभ्याम् ।
यक्ष्मं मतस्नाभ्यां प्लीह्नो
यक्नस् ते वि वृहामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्लोम्नस् ते हृदय्याभ्यो
हलीक्ष्णात् पार्श्वाभ्याम् ।
यक्ष्मं मतस्नाभ्यां प्लीह्नो
यक्नस् ते वि वृहामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ आन्त्रेभ्यस् ते गुदाभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
आन्त्रेभ्यस् ते गुदाभ्यो
वनिष्ठोर् उदराद् उत ।
यक्ष्मं पाण्योर् अङ्गुलिभ्यो
नखेभ्यो वि वृहामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आन्त्रेभ्यस् ते गुदाभ्यो
वनिष्ठोर् उदराद् उत ।
यक्ष्मं पाण्योर् अङ्गुलिभ्यो
नखेभ्यो वि वृहामसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ अस्थिभ्यस् ते मांसेभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
अस्थिभ्यस् ते मांसेभ्यः
स्नावभ्यो धमनिभ्यः ।
यक्ष्मं पृष्टिभ्यो मज्जभ्यो
नाभ्या वि वृहामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्थिभ्यस् ते मांसेभ्यः
स्नावभ्यो धमनिभ्यः ।
यक्ष्मं पृष्टिभ्यो मज्जभ्यो
नाभ्या वि वृहामसि ॥
सर्वाष् टीकाः ...{Loading}...
०६ ऊरुभ्यां ते अष्ठीवद्भ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऊरुभ्यां ते अष्ठीवद्भ्यां
पार्ष्णिभ्यां प्रपदाभ्याम् ।
यक्ष्मं भसद्यं श्रोणिभ्यां
भंससो वि वृहामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊरुभ्यां ते अष्ठीवद्भ्यां
पार्ष्णिभ्यां प्रपदाभ्याम् ।
यक्ष्मं भसद्यं श्रोणिभ्यां
भंससो वि वृहामसि ॥
सर्वाष् टीकाः ...{Loading}...
०७ अङ्गादङ्गाल् लोम्नोलोम्नो बद्धम्
विश्वास-प्रस्तुतिः ...{Loading}...
अङ्गादङ्गाल् लोम्नोलोम्नो
बद्धं पर्वणिपर्वणि ।
यक्ष्मं त्वचस्यं ते वयं
विष्वञ्चं वि वृहामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अङ्गादङ्गाल् लोम्नोलोम्नो
बद्धं पर्वणिपर्वणि ।
यक्ष्मं त्वचस्यं ते वयं
विष्वञ्चं वि वृहामसि ॥
सर्वाष् टीकाः ...{Loading}...
०८ अङ्गादाङ्गाद् अहं तव
विश्वास-प्रस्तुतिः ...{Loading}...
अङ्गादाङ्गाद् अहं तव
परुषःपरुषस् परि ।
कश्यपस्य विवृहेण
यक्ष्मं ते वि वृहामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अङ्गादाङ्गाद् अहं तव
परुषःपरुषस् परि ।
कश्यपस्य विवृहेण
यक्ष्मं ते वि वृहामसि ॥