००६

सर्वाष् टीकाः ...{Loading}...

०१ हिरण्यशृङ्गो वृषभो यः

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यशृङ्गो वृषभो
यः समुद्राद् उदाचरत् ।
तेना सहस्येना वयं
नि जनान्त् स्वापयामसि ॥

०२ न भूमिं वातो

विश्वास-प्रस्तुतिः ...{Loading}...

न भूमिं वातो ऽति वाति
नाति तपति सूर्यः ।
जनांश् च सर्वान् स्वापय
शुनश् चेन्द्रसखा चरन् ॥

०३ वह्येशयाः प्रोष्ठेशया नारीर्

विश्वास-प्रस्तुतिः ...{Loading}...

वह्येशयाः प्रोष्ठेशया
नारीर् यास् तल्पशीवरीः ।
स्त्रियो याः पुण्यगन्धास्
ताः सर्वाः स्वापयामसि ॥

०४ एजदेजद् अजग्रभं चक्षुः

विश्वास-प्रस्तुतिः ...{Loading}...

एजदेजद् अजग्रभं
चक्षुः प्राणम् अजग्रभम् ।
अङ्गान्य् अग्रभं सर्वा
रात्रीणाम् अतिशर्वरे ॥

०५ य आस्ते यश्

विश्वास-प्रस्तुतिः ...{Loading}...

य आस्ते यश् च चरति
यश् च तिष्ठन् विपश्यति ।
तेषां सं दध्मो अक्षाणि
यथेदं हर्म्यं तथा ॥

०६ स्वप्तु माता स्वप्तु

विश्वास-प्रस्तुतिः ...{Loading}...

स्वप्तु माता स्वप्तु पिता
स्वप्तु श्वा स्वप्तु विश्पतिः ।
स्वपन्तु सर्वे ज्ञातयः
सर्वं नि ष्वापया जनम् ॥

०७ स्वप्न स्वप्नाभिकरणेन सर्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वप्न स्वप्नाभिकरणेन
सर्वं नि ष्वापया जनम् । (Bhatt. ṣpāpaya)
ओत्सूर्यम् अन्यान् स्वापय-
-आव्युषं चरताद् अहम्
इन्द्र इवारिष्टो अक्षितः ॥