००५

सर्वाष् टीकाः ...{Loading}...

०१ यां त्वा गन्धर्वो

विश्वास-प्रस्तुतिः ...{Loading}...

यां त्वा गन्धर्वो अखनद्
वरुणाय मृतभ्रजे । +++(Bhatt. mitabhraje)+++
तां त्वा वयं खनामस्य्
ओषधिं शेपहर्षणीम् ॥

०२ वृषणस् ते खनितारो

विश्वास-प्रस्तुतिः ...{Loading}...

वृषणस् ते खनितारो
वृषा त्वम् अस्य् ओषधे ।
वृषासि वृष्ण्यावती
वृषणे त्वा खनामसि ॥

०३ उद् उषा उद्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् उषा उद् उ सूर्य
उच् छुष्मा ओषधीनाम् ।
उद् एजति प्रजापतिर्
वृषा शुष्मेण वाजिना ॥

०४ ऊर्ध्वश्राणम् इदं कृधि

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वश्राणम् इदं कृधि
यथा स्म ते विरोहतो
अभितप्तम् इवानति ।
ततस् ते शुष्मवत्तरम्
इयं कृणोत्व् ओषधिः ॥

०५ अपां रस ओषधीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपां रस ओषधीनाम्
अथो वनस्पतीनाम् ।
अथो सोमस्य भ्रातास्य्
आर्श्यम् असि वृष्ण्यम् ॥

०६ अश्वस्य ऋश्यस्य बस्तस्य

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वस्य ऋश्यस्य
बस्तस्य पुरुषस्य च ।
य ऋषभस्य वाजस्
तम् अस्मै धेह्य् ओषधे ॥ +++(Bhatt. dehy)+++

०७ सं वाजा ऋषभाणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं वाजा ऋषभाणां
सं शुष्मा ओषधीनाम् ।
सं पुंसाम् इन्द्र वृष्ण्यम् +++(Bhatt. pūṣām)+++
अस्मै धेहि तनूबलम् ॥

०८ अद्याग्ने अद्य सवितर्

विश्वास-प्रस्तुतिः ...{Loading}...

अद्याग्ने अद्य सवितर्
अद्य देवि सरस्वति ।
अद्या मे ब्रह्मणस्पते
धनुर् इवा तानया पसः ॥

०९ ऊर्ध्वास् तिष्ठन्ति गिरय

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वास् तिष्ठन्ति गिरय
ऊर्ध्वा वाता उद् ईरते ।
ऊर्ध्वो ऽयं मामको
मयूख इवाधि भूम्याम् ॥

१० उत् तिष्ठोग्र वि

विश्वास-प्रस्तुतिः ...{Loading}...

उत् तिष्ठोग्र वि धूनुष्व
वि ते श्वयन्तु नाड्यः । +++(Bhatt. ghnā yantu)+++
अतन्द्रो अश्वपा इव
नाव ग्लायो ऽधि मुष्कयोः ॥