००४

सर्वाष् टीकाः ...{Loading}...

०१ स्तुवानम् अग्न आ

विश्वास-प्रस्तुतिः ...{Loading}...

स्तुवानम् अग्न आ नय
यातुधानं किमीदिनम् ।
त्वं हि देवान्तितो
हन्ता दस्योर् बभूविथ ॥

०२ आज्यस्य परमेष्ठिञ् जातवेदस्

विश्वास-प्रस्तुतिः ...{Loading}...

आज्यस्य परमेष्ठिञ्
जातवेदस् तनूवशिन् ।
अग्ने तौलस्य प्राशान +++(Bhatt. prāśān)+++
यातुधानान् वि लापय ॥

०३ वि लपन्तु यातुधाना

विश्वास-प्रस्तुतिः ...{Loading}...

वि लपन्तु यातुधाना
अत्रिणो ये किमीदिनः ।
अथेदम् अग्ने नो हविर्
इन्द्रश् च प्रति हर्यतम् ॥

०४ अग्निः पुरस्ताद् आ

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निः पुरस्ताद् आ यच्छतु
प्रेन्द्रो नुदतु बाहुमान् ।
ब्रवीतु सर्वो यातुमान्
अयम् अस्मीत्य् एत्य ॥

०५ पश्यामि ते वीर्या

विश्वास-प्रस्तुतिः ...{Loading}...

पश्यामि ते वीर्या जातवेदः
प्र णो ब्रूहि यातुधानान् नृचक्षः ।
त्वया सर्वे परितप्ताः पुरस्ताद्
आ यन्तु प्रब्रुवाणा उपेदम् ॥

०६ आ रभस्व जातवेदो

विश्वास-प्रस्तुतिः ...{Loading}...

आ रभस्व जातवेदो
हृदः कामाय रन्धय ।
दूतो नो अग्न उत् तिष्ठ +++(Bhatt. agnir)+++
यातुधानान् इहा नय ॥

०७ त्वम् अग्ने यातुधानान्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् अग्ने यातुधानान्
उपबद्धान् इहा नय ।
अथैषाम् इन्द्रो वज्रेण-
-अपि शीर्षाणि वृश्चतु ॥

०८ इदं हविर् यातुधानान्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं हविर् यातुधानान्
नदी फेनम् इवा वहात् ।
यदीदं स्त्री पुमान् अकर्
इह स स्तुवतां जनः ॥

०९ यातुधानस्य सोमप जहि

विश्वास-प्रस्तुतिः ...{Loading}...

यातुधानस्य सोमप
जहि प्रजां नयस्व च ।
नि ष्टुवानस्य पातय
परम् अक्ष्य् उतावरम् ॥

१० अयं स्तुवान आगमत्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं स्तुवान आगमत्
तं स्मोत प्रति हर्यत ।
बृहस्पते वशे कृथा
अग्नीषोमा वि विध्यतम् ॥