सर्वाष् टीकाः ...{Loading}...
०१ यत् ते चन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते चन्द्रं कश्यप रोचनावद्
यत् संहितं पुष्कलं चित्रभानु ।
यस्मिन् सूर्या आर्पिताः सप्त साकं
तस्मिन् राजानम् अधि वि श्रयेमम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते चन्द्रं कश्यप रोचनावद्
यत् संहितं पुष्कलं चित्रभानु ।
यस्मिन् सूर्या आर्पिताः सप्त साकं
तस्मिन् राजानम् अधि वि श्रयेमम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ येभिः शिल्पैः पप्रथानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
येभिः शिल्पैः पप्रथानाम् अदृंहो
येभिर् दिवम् अभ्यपिंशः प्रविद्वान् ।
येभिर् वाचं पुष्कलैर् अव्ययस्
तेन माग्ने वर्चसा सं सृजेह ॥
मूलम् ...{Loading}...
मूलम् (GR)
येभिः शिल्पैः पप्रथानाम् अदृंहो
येभिर् दिवम् अभ्यपिंशः प्रविद्वान् ।
येभिर् वाचं पुष्कलैर् अव्ययस्
तेन माग्ने वर्चसा सं सृजेह ॥
सर्वाष् टीकाः ...{Loading}...
०३ येभिः सूर्य आतपति
विश्वास-प्रस्तुतिः ...{Loading}...
येभिः सूर्य आतपति प्र केतुभिर्
येभिर् अग्निर् ददृशे चित्रभानुः ।
येभिर् आपश् चन्द्रवर्णा अजिन्वन्
तेन माग्ने वर्चसा सं सृजेह ॥
मूलम् ...{Loading}...
मूलम् (GR)
येभिः सूर्य आतपति प्र केतुभिर्
येभिर् अग्निर् ददृशे चित्रभानुः ।
येभिर् आपश् चन्द्रवर्णा अजिन्वन्
तेन माग्ने वर्चसा सं सृजेह ॥
सर्वाष् टीकाः ...{Loading}...
०४ आयं भातु प्रदिशः
विश्वास-प्रस्तुतिः ...{Loading}...
आयं भातु प्रदिशः पञ्च देवीर्
इन्द्र इव ज्येष्ठो भवतु प्रजानाम् ।
अस्मिन् धेहि पुष्कलं चित्रभान्व्
अयं पृणातु रजसोर् उपस्थम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयं भातु प्रदिशः पञ्च देवीर्
इन्द्र इव ज्येष्ठो भवतु प्रजानाम् ।
अस्मिन् धेहि पुष्कलं चित्रभान्व्
अयं पृणातु रजसोर् उपस्थम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अनु त्वेन्द्रो ऽवत्व्
विश्वास-प्रस्तुतिः ...{Loading}...
अनु त्वेन्द्रो ऽवत्व् अनु बृहस्पतिर्
अनु त्वा सोमो अन्व् अग्निर् आवीत् ।
अनु त्वा विश्वे अवन्तु देवाः
सप्त राजानो य उदाभिषिक्ताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनु त्वेन्द्रो ऽवत्व् अनु बृहस्पतिर्
अनु त्वा सोमो अन्व् अग्निर् आवीत् ।
अनु त्वा विश्वे अवन्तु देवाः
सप्त राजानो य उदाभिषिक्ताः ॥
सर्वाष् टीकाः ...{Loading}...
०६ अनु त्वा मित्रावरुणेहावताम्
विश्वास-प्रस्तुतिः ...{Loading}...
अनु त्वा मित्रावरुणेहावताम्
अनु द्यावापृथिवी ओषधीभिः ।
सूर्यो ऽहोभिर् अनु त्वावतु
चन्द्रमा नक्षत्रैर् अनु त्वेदम् आवीत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनु त्वा मित्रावरुणेहावताम्
अनु द्यावापृथिवी ओषधीभिः ।
सूर्यो ऽहोभिर् अनु त्वावतु
चन्द्रमा नक्षत्रैर् अनु त्वेदम् आवीत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ द्यौश् च त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौश् च त्वा पृथिवी च प्रचेतसौ
शुक्रो बृहन् दक्षिणा त्वा पिपर्तु ।
अनु स्वधा चिकितां सोमो अग्निः
पूषा त्वावतु सविता सवेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्यौश् च त्वा पृथिवी च प्रचेतसौ
शुक्रो बृहन् दक्षिणा त्वा पिपर्तु ।
अनु स्वधा चिकितां सोमो अग्निः
पूषा त्वावतु सविता सवेन ॥