००२

सर्वाष् टीकाः ...{Loading}...

०१ भूतो भूतेषु पय

विश्वास-प्रस्तुतिः ...{Loading}...

भूतो भूतेषु पय आ दधाति
स भूतानाम् अधिपतिर् बभूव ।
स ते मृत्युश् चरति राजसूयं
स राजा राज्यम् अनु मन्यताम् इदम् ॥

०२ अभि प्रेहि वीरयस्व

विश्वास-प्रस्तुतिः ...{Loading}...

अभि प्रेहि वीरयस्व-
-उग्रश् चेत्ता सपत्नहा ।
आ तिष्ठ मित्रवर्धन
तुभ्यं देवा अधि ब्रुवन् ॥

०३ आतिष्ठन्तं परि विश्वे

विश्वास-प्रस्तुतिः ...{Loading}...

आतिष्ठन्तं परि विश्वे अभूषञ्
छ्रियं वसानश् चरति स्वरोचिः ।
महत् तद् वृष्णो असुरस्य नाम-
-आ विश्वरूपो अमृतानि तस्थौ ॥

०४ एना व्याघ्रं परिषस्वजानाः

विश्वास-प्रस्तुतिः ...{Loading}...

एना व्याघ्रं परिषस्वजानाः
सिंहं हिन्वन्ति महते सौभगाय ।
महिषं न सुभुवस् तस्थिवांसं
मर्मृज्यन्ते द्वीपिनम् अप्स्व् अन्तः ॥

०५ व्याघ्रो अधि वैयाघ्रे

विश्वास-प्रस्तुतिः ...{Loading}...

व्याघ्रो अधि वैयाघ्रे
वि क्रमस्व दिशो महीः ।
विशस् त्वा सर्वा आ यन्त्व्
आपो दिव्याः पयस्वतीः ॥

०६ या आपो दिव्याः

विश्वास-प्रस्तुतिः ...{Loading}...

या आपो दिव्याः पयसा मदन्ति
या अन्तरिक्ष उत पार्थिवा याः ।
तासां त्वा सर्वासाम् अपाम्
अभि षिञ्चामि वर्चसा ॥

०७ अभि त्वा वर्चसासिचम्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि त्वा वर्चसासिचं
दिव्येन पयसा सह ।
यथासो मित्रवर्धनस्
तथा त्वा सविता करत् ॥