००१

सर्वाष् टीकाः ...{Loading}...

०१ हिरण्यगर्भः सम् अवर्तताग्रे

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यगर्भः सम् अवर्तताग्रे
भूतस्य जातः पतिर् एक आसीत् ।
स दाधार पृथिवीं द्याम् उतामुं
तस्मै देवाय हविषा विधेम ॥

०२ य ओजोदा बलदा

विश्वास-प्रस्तुतिः ...{Loading}...

य ओजोदा बलदा यश् च विश्व
उपासते प्रशिषं यस्य देवाः ।
यस्य छायामृतं यस्य मृत्युस्
तस्मै देवाय हविषा विधेम ॥

०३ यः प्राणतो निमिषतो

विश्वास-प्रस्तुतिः ...{Loading}...

यः प्राणतो निमिषतो विधर्ता
पतिर् विश्वस्य जगतो बभूव ।
य ईशे ऽस्य द्विपदो यश् चतुष्पदस्
तस्मै देवाय हविषा विधेम ॥

०४ येन द्यौर् उग्रा

विश्वास-प्रस्तुतिः ...{Loading}...

येन द्यौर् उग्रा पृथिवी च दृढा
येन स्व स्तभितं येन नाकः । (Bhatt. svaḥ)
यो अन्तरिक्षं विममे वरीयस्
तस्मै देवाय हविषा विधेम ॥

०५ य इमे द्यावापृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

य इमे द्यावापृथिवी तस्तभान-
-अधारयद् अवसा रेजमाने ।
यस्मिन्न् अधि वितत एति सूर्यस्
तस्मै देवाय हविषा विधेम ॥

०६ यस्य विश्वे हिमवन्तो

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य विश्वे हिमवन्तो महित्वा
समुद्रं यस्य रसया सहाहुः ।
दिशो यस्य प्रदिशः पञ्च देवीस्
तस्मै देवाय हविषा विधेम ॥

०७ आपो ह यस्य

विश्वास-प्रस्तुतिः ...{Loading}...

आपो ह यस्य विश्वम् आयुर्
दधाना गर्भं जनयन्त मातरः ।
तत्र देवानाम् अधि देव आस्त
एकस्थूणे विमिते दृढ उग्रे ॥

०८ आपो गर्भं जनयन्तीर्

विश्वास-प्रस्तुतिः ...{Loading}...

आपो गर्भं जनयन्तीर्
वत्सम् अग्रे सम् ऐरयन् ।
तस्योत जायमानस्य-
-उल्ब आसीद् धिरण्ययः ॥

०९ हिरण्य उल्ब आसीद्

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्य उल्ब आसीद् यो
ऽग्रे वत्सो अजायत ।
तं योन्योर् विद्रवन्त्योः
पर्य् अपश्यद् दितिर् मही ॥