०४०

सर्वाष् टीकाः ...{Loading}...

०१ तेजनात् त्यजनं जातम्

विश्वास-प्रस्तुतिः ...{Loading}...

तेजनात् त्यजनं जातं
तेजनं जायते शरात् ।
न येषति न शोचति
यस् त्वा बिभर्ति तेजन ॥

०२ परुत्नम् असि तेजन

विश्वास-प्रस्तुतिः ...{Loading}...

परुत्नम् असि तेजन
परुत्नं ते प्रभञ्जनम् ।
परुत्नो अस्तु स कामो
येनामूं कामयामहे ॥ +++(Bhatt. yenāmūn)+++

०३ यावद् ओषः शरो

विश्वास-प्रस्तुतिः ...{Loading}...

यावद् ओषः शरो अस्त्वो
जनेभ्यः कृणवद् भयम् ।
तावद् ओषस् त्वं तेजन
त्यजनं भवताद् इह ॥

०४ त्यजनं म आपो

विश्वास-प्रस्तुतिः ...{Loading}...

त्यजनं म आपो दधन्
त्यजनं मरुतो दधन् ।
त्यजनं मे विश्वे देवास्
त्यजनं पितरो दधन् ॥

०५ तेनाहम् अन्येषां स्त्रियो

विश्वास-प्रस्तुतिः ...{Loading}...

तेनाहम् अन्येषां स्त्रियो
अत्याक्षं विद्विषः पुरा ।
पुरा द्विषो अत्याक्षं
पुरा मध्यन्दिनाद् उत ।
पुरा सायत्वाद् अत्याक्षं
तेजने हि महद् बलम् ॥

०६ अस्थाद् द्यौर् अस्थात्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्थाद् द्यौर् अस्थात् पृथिव्य्
अस्थाद् विश्वम् इदं जगत् ।
अस्थाद् अवहृदेवात्
तिष्ठात् कामो अयं तव ॥