०३८

सर्वाष् टीकाः ...{Loading}...

०१ अजो ह्य् अग्नेर्

विश्वास-प्रस्तुतिः ...{Loading}...

अजो ह्य् अग्नेर् अजनिष्ट शोकात्
सो ऽपश्यज् जनितारम् अग्रे ।
तेन देवा देवताम् अग्र आयन्
तेन रोहान् अरोहन्न् उप मेधीयांसः ॥

०२ क्रमध्वम् अग्निभिर् नाकम्

विश्वास-प्रस्तुतिः ...{Loading}...

क्रमध्वम् अग्निभिर् नाकम्
उख्यां हस्तेषु बिभ्रतः ।
दिवस् पृष्ठं स्वर् गत्वा
मिश्रा देवेभिर् आध्वम् ॥

०३ अग्ने प्रेहि प्रथमो

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने प्रेहि प्रथमो देवयतां
चक्षुर् देवानाम् उत मर्त्यानाम् ।
इयक्षमाणा भृगुभिः सजोषसः
स्वर् यन्तु यजमानाः स्वस्ति ॥

०४ स्वर् यन्तो नापेक्षन्त

विश्वास-प्रस्तुतिः ...{Loading}...

स्वर् यन्तो नापेक्षन्त
आ द्यां रोहन्तु राधसः ।
यज्ञं ये विश्वतोधारं
सुविद्वांसो वि तेनिरे ॥

०५ ओदनम् अनज्मि शवसा

विश्वास-प्रस्तुतिः ...{Loading}...

ओदनम् अनज्मि शवसा घृतेन
दिव्यं समुद्रं पयसं बृहन्तम् ।
तेन गेष्म सुकृतस्य लोकं
सरोरुहाणा अधि नाकम् उत्तमम् ॥ (read svar ruhāṇā)

०६ यौ ते पक्षाव्

विश्वास-प्रस्तुतिः ...{Loading}...

यौ ते पक्षाव् अजरौ पतत्रिणौ
याभ्यां रक्षांस्य् अपहंस्य् ओदन ।
ताभ्यां पत्यास्म सुकृतस्य लोकं
यत्र र्षयः प्रथमजाः पुराणाः ॥

०७ यतस् तिष्ठो दिवस्

विश्वास-प्रस्तुतिः ...{Loading}...

यतस् तिष्ठो दिवस् पृष्ठे
व्योमन्न् अध्य् ओदन ।
अन्वायन् सत्यधर्माणो
ब्राह्मणा राधसा सह ॥

०८ पृष्ठात् पृथिव्या अहम्

विश्वास-प्रस्तुतिः ...{Loading}...

पृष्ठात् पृथिव्या अहम् अन्तरिक्षम् आरुहम्
अन्तरिक्षाद् दिवम् आरुहम् ।
दिवो नाकस्य पृष्ठात् स्वर् ज्योतिर् अगाम् अहम् ॥

०९ अजो ऽस्य् अज

विश्वास-प्रस्तुतिः ...{Loading}...

अजो ऽस्य् अज स्वर्गो ऽसि
त्वया लोकम् अङ्गिरसः प्र जानन् ।
तं लोकम् अनु प्र ज्ञेष्म ॥

१० येना सहस्रं वहसि

विश्वास-प्रस्तुतिः ...{Loading}...

येना सहस्रं वहसि
येन वा सर्ववेदसम् ।
तेनेमं यज्ञं नो वह
स्वर् देवेषु गन्तवे ॥

११ अजं च पचत

विश्वास-प्रस्तुतिः ...{Loading}...

अजं च पचत पञ्च चौदनान् ।
अजं पञ्चौदनं पक्त्वा
देवा लोकान् सम् आनशुः ॥