सर्वाष् टीकाः ...{Loading}...
०१ यत इन्द्र भयामहे
विश्वास-प्रस्तुतिः ...{Loading}...
यत इन्द्र भयामहे
ततो नो अभयं कृधि ।
मघवञ् छग्धि तव त्वं न ऊतिभिर्
वि द्विषो वि मृधो जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत इन्द्र भयामहे
ततो नो अभयं कृधि ।
मघवञ् छग्धि तव त्वं न ऊतिभिर्
वि द्विषो वि मृधो जहि ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्रं वयम् अनूराधम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं वयम् अनूराधं हवामहे
ऽनु राध्यास्म द्विपदा चतुष्पदा ।
मा नः सेना अररुषीर् उप गुर्
विषूचीर् इन्द्र द्रुहो वि नाशय ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रं वयम् अनूराधं हवामहे
ऽनु राध्यास्म द्विपदा चतुष्पदा ।
मा नः सेना अररुषीर् उप गुर्
विषूचीर् इन्द्र द्रुहो वि नाशय ॥
सर्वाष् टीकाः ...{Loading}...
०३ इन्द्रस् त्रातोत वृत्रहा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस् त्रातोत वृत्रहा
परस्पा नो वरेण्यः ।
स रक्षिता चरमतः स मध्यतः
स पश्चात् स पुरस्तान् नो अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस् त्रातोत वृत्रहा
परस्पा नो वरेण्यः ।
स रक्षिता चरमतः स मध्यतः
स पश्चात् स पुरस्तान् नो अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
०४ उरुं नो लोकम्
विश्वास-प्रस्तुतिः ...{Loading}...
उरुं नो लोकम् अनु नेषि विद्वान्
स्वर्यज् ज्योतिर् अभयं स्वस्ति ।
उग्रा त इन्द्र स्थविरस्य बाहू
उप क्षियेम शरणा बृहन्ता ॥
मूलम् ...{Loading}...
मूलम् (GR)
उरुं नो लोकम् अनु नेषि विद्वान्
स्वर्यज् ज्योतिर् अभयं स्वस्ति ।
उग्रा त इन्द्र स्थविरस्य बाहू
उप क्षियेम शरणा बृहन्ता ॥
सर्वाष् टीकाः ...{Loading}...
०५ अभयं नः करत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
अभयं नः करत्य् अन्तरिक्षम्
अभयं द्यावापृथिवी उभे ।
अभयं पश्चाद् अभयं पुरस्ताद्
उत्तराद् अधराद् अभयं नो अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभयं नः करत्य् अन्तरिक्षम्
अभयं द्यावापृथिवी उभे ।
अभयं पश्चाद् अभयं पुरस्ताद्
उत्तराद् अधराद् अभयं नो अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
०६ अभयं मित्राद् अभयम्
विश्वास-प्रस्तुतिः ...{Loading}...
अभयं मित्राद् अभयम् अमित्राद्
अभयं ज्ञाताद् अभयं पुरो नः ।
अभयं नक्तम् अभयं दिवा नः
सर्वा आशा मम मित्रं भवन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभयं मित्राद् अभयम् अमित्राद्
अभयं ज्ञाताद् अभयं पुरो नः ।
अभयं नक्तम् अभयं दिवा नः
सर्वा आशा मम मित्रं भवन्तु ॥