सर्वाष् टीकाः ...{Loading}...
०१ समास् त्वाग्न ऋतवो
विश्वास-प्रस्तुतिः ...{Loading}...
समास् त्वाग्न ऋतवो वर्धयन्तु
संवत्सर ऋषयो यानि सत्या ।
सं द्युम्नेन दीदिहि रोचनेन
विश्वा आ भाहि प्रदिशश् चतस्रः ॥
मूलम् ...{Loading}...
मूलम् (GR)
समास् त्वाग्न ऋतवो वर्धयन्तु
संवत्सर ऋषयो यानि सत्या ।
सं द्युम्नेन दीदिहि रोचनेन
विश्वा आ भाहि प्रदिशश् चतस्रः ॥
सर्वाष् टीकाः ...{Loading}...
०२ सं चेध्यस्वाग्ने प्र
विश्वास-प्रस्तुतिः ...{Loading}...
सं चेध्यस्वाग्ने प्र च बोधयैनम्
उच् च तिष्ठ महते सौभगाय ।
मा ते रिषन्न् उपसत्तारो अत्र
ब्राह्मणास् ते यशसः सन्तु मान्ये ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं चेध्यस्वाग्ने प्र च बोधयैनम्
उच् च तिष्ठ महते सौभगाय ।
मा ते रिषन्न् उपसत्तारो अत्र
ब्राह्मणास् ते यशसः सन्तु मान्ये ॥
सर्वाष् टीकाः ...{Loading}...
०३ त्वाम् अग्ने वृणते
विश्वास-प्रस्तुतिः ...{Loading}...
त्वाम् अग्ने वृणते ब्राह्मणा इमे
शिवो अग्ने प्रतरणो न एधि ।
सपत्नहाग्ने अभिमातिजिद् भव
स्वे क्षये दीदिह्य् अप्रयुच्छन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वाम् अग्ने वृणते ब्राह्मणा इमे
शिवो अग्ने प्रतरणो न एधि ।
सपत्नहाग्ने अभिमातिजिद् भव
स्वे क्षये दीदिह्य् अप्रयुच्छन् ॥
सर्वाष् टीकाः ...{Loading}...
०४ इहैवाग्ने अधि धारया
विश्वास-प्रस्तुतिः ...{Loading}...
इहैवाग्ने अधि धारया रयिं
मा त्वा दभन् पूर्वचित्ता निकारिणः ।
क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम्
उपसत्ता वर्धतां ते अनिष्टृतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहैवाग्ने अधि धारया रयिं
मा त्वा दभन् पूर्वचित्ता निकारिणः ।
क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम्
उपसत्ता वर्धतां ते अनिष्टृतः ॥
सर्वाष् टीकाः ...{Loading}...
०५ क्षत्रेणाग्ने स्वेन सम्
विश्वास-प्रस्तुतिः ...{Loading}...
क्षत्रेणाग्ने स्वेन सं रभस्व
मित्रेणाग्ने मित्रधेयं यतस्व ।
सजातानां मध्यमेष्ठेयम् अस्या
राज्ञाम् अग्ने विहव्यो दीदिहीह ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्षत्रेणाग्ने स्वेन सं रभस्व
मित्रेणाग्ने मित्रधेयं यतस्व ।
सजातानां मध्यमेष्ठेयम् अस्या
राज्ञाम् अग्ने विहव्यो दीदिहीह ॥
सर्वाष् टीकाः ...{Loading}...
०६ अति निहो ऽति
विश्वास-प्रस्तुतिः ...{Loading}...
अति निहो ऽति निरृतीर्
अत्य् अरातीर् अति द्विषः ।
विश्वा ह्य् अग्ने दुरिता तर त्वम्
अथास्मभ्यं सहवीरं रयिं दाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अति निहो ऽति निरृतीर्
अत्य् अरातीर् अति द्विषः ।
विश्वा ह्य् अग्ने दुरिता तर त्वम्
अथास्मभ्यं सहवीरं रयिं दाः ॥
सर्वाष् टीकाः ...{Loading}...
०७ अनाधृष्यो जातवेदा अनिष्टृतो
विश्वास-प्रस्तुतिः ...{Loading}...
अनाधृष्यो जातवेदा अनिष्टृतो
विराड् अग्ने क्षत्रभिर् दीदिहीह ।
व्यमीवाः प्रमुञ्चन् मानुषेभ्यः
शिवेभिर् अद्य परि पाहि नो गयैः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनाधृष्यो जातवेदा अनिष्टृतो
विराड् अग्ने क्षत्रभिर् दीदिहीह ।
व्यमीवाः प्रमुञ्चन् मानुषेभ्यः
शिवेभिर् अद्य परि पाहि नो गयैः ॥