०३२

सर्वाष् टीकाः ...{Loading}...

०१ प्रजापतेर् जायमानाः प्रजा

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतेर् जायमानाः
प्रजा जाताश् च या इमाः ।
ता अस्मै प्रति वेदय
चिकित्वाँ अनु मन्यताम् ॥

०२ येषाम् ईशे पशुपतिः

विश्वास-प्रस्तुतिः ...{Loading}...

येषाम् ईशे पशुपतिः पशूनां
चतुष्पदाम् उत वा ये द्विपादः ।
निष्क्रीतास् ते यज्ञिया यन्ति लोकं
रायस्पोषाय यजमानं सचन्ताम् ॥

०३ प्रमुञ्चन्तो भुवनस्य गोपा

विश्वास-प्रस्तुतिः ...{Loading}...

प्रमुञ्चन्तो भुवनस्य गोपा
गातुं देवा यजमानाय धत्त ।
उपाकृतं शशमानं यद् अस्थात्
प्रियं देवानाम् अप्य् एतु पाथः ॥

०४ ये बध्यमानम् अनु

विश्वास-प्रस्तुतिः ...{Loading}...

ये बध्यमानम् अनु दीध्याना +++(Bhatt. dīdhyānāṃ)+++
अन्वैक्षन्त मनसा चक्षुषा च ।
अग्निष् टान् अग्रे प्र मुमुक्त देवः
प्रजापतिः प्रजया संविदानः ॥

०५ येषां प्राणा अन्वबध्नन्त

विश्वास-प्रस्तुतिः ...{Loading}...

येषां प्राणा अन्वबध्नन्त बद्वं
गवां पशूनाम् उत पूरुषाणाम् ।
इन्द्रस् तान् अग्रे प्र मुमुक्त देवः
प्रजापतिः प्रजया संविदानः ॥

०६ य आरण्याः पशवो

विश्वास-प्रस्तुतिः ...{Loading}...

य आरण्याः पशवो विश्वरूपा
ये विश्वरूपा उतैकरूपाः ।
वायुष् टान् अग्रे प्र मुमुक्त देवः
प्रजापतिः प्रजया संविदानः ॥

०७ प्रजानन्तः प्रति गृह्णन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजानन्तः प्रति गृह्णन्तु देवाः
प्राणम् अङ्गेभ्यस् पर्याचरन्तम् ।
द्यां गच्छ प्रति तिष्ठा शरीरैः
स्वर्गं याहि पथिभिः शिवेभिः ॥