०३०

सर्वाष् टीकाः ...{Loading}...

०१ यथा कलाम् इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा कलाम् इत्य् एका ॥

०२ सं राजानो ऽगुः

विश्वास-प्रस्तुतिः ...{Loading}...

सं राजानो ऽगुः सम् ऋणान्य् अगुः
सं कुष्ठा अगुः सं कुला अगुः ।
सम् अस्मासु सुष्वप्न्यं
निर् द्विषते दुष्वप्न्यं सुवामः ॥ (Bhatt. duḥṣvapnyaṃ)

०३ देवानां पत्नीनां गर्भ

विश्वास-प्रस्तुतिः ...{Loading}...

देवानां पत्नीनां
गर्भ यमस्य करणः ।
यो भद्रः स्वप्नः स मम
यः पापस् तं द्विषते प्र हिण्मः ॥

०४ तृष्णामा नामासि कृष्णशकुनेर्

विश्वास-प्रस्तुतिः ...{Loading}...

तृष्णामा नामासि कृष्णशकुनेर् मुखं निरृतेर् मुखम् ।
तं त्वा स्वप्न तथा विद्म ॥

०५ स त्वं स्वप्नाश्व

विश्वास-प्रस्तुतिः ...{Loading}...

स त्वं स्वप्नाश्व इवाकायम् अश्व इव नीनाहम् ।
अनास्माकं देवपीयुं पियारुं वप्सः ॥

०६ यद् अस्मासु दुष्वप्न्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अस्मासु दुष्वप्न्यं (Bhatt. duḥṣvapnyaṃ)
यद् गोषु यच् च नो गृहे ।
अनास्माकस् तद् देवपीयुः पियारुं
निष्कम् इव प्रति मुञ्चताम् ॥

०७ नवारत्नीन् अवमाय अस्माकम्

विश्वास-प्रस्तुतिः ...{Loading}...

नवारत्नीन् अवमाय-
-अस्माकं तन्वस् परि ।
दुष्वप्न्यं सर्वं दुर्भूतं (Bhatt. duḥṣvapnyaṃ)
द्विषते निर् दिशामसि ॥