०२९

सर्वाष् टीकाः ...{Loading}...

०१ प्रतीची सोमम् अस्य्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीची सोमम् अस्य् ओषधे
प्रतीच्य् उत सूर्यम् ।
प्रतीची विश्वान् देवांस्
तथा त्वाच्छा वदामसि ॥

०२ इमां खनाम्य् ओषधिम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमां खनाम्य् ओषधिं
नितत्नीम् अनुतन्तमाम् ।
आयतः प्रतिनन्दनीं
परायतो निवर्तनीम् ॥

०३ अमुष्याहं परायत आयतो

विश्वास-प्रस्तुतिः ...{Loading}...

अमुष्याहं परायत
आयतो मनो अग्रभम् ।
अग्रभं हस्त्यं मनो
ऽथो हृदय्यं मनः ॥

०४ मयि ते मन

विश्वास-प्रस्तुतिः ...{Loading}...

मयि ते मन आहितं
मयि चित्तं मयि व्रतम् ।
ममेद् अपि क्रताव् असो
मम चित्ते सचावहै ॥

०५ अहं वदानि मा

विश्वास-प्रस्तुतिः ...{Loading}...

अहं वदानि मा त्वं
सभायां घ त्वं वद ।
ममेद् असस् त्वं केवलो
नान्यासां कीर्तयाश् चन ॥

०६ यदि वासि तिरो

विश्वास-प्रस्तुतिः ...{Loading}...

यदि वासि तिरो जनं
यदि वा नद्यस् तिरः ।
इयं त्वा मह्यम् ओषधिर्
बद्ध्वेव न्य् आनयात् ॥