सर्वाष् टीकाः ...{Loading}...
०१ सं स्पृशेथां तनूभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
सं स्पृशेथां तनूभ्यां
सं मुखाभ्यां सम् आत्मना ।
सं वां ब्रह्मणस्पतिः
सोमः सं स्पर्शयाति वाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं स्पृशेथां तनूभ्यां
सं मुखाभ्यां सम् आत्मना ।
सं वां ब्रह्मणस्पतिः
सोमः सं स्पर्शयाति वाम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अभ्य् अस्य नाम
विश्वास-प्रस्तुतिः ...{Loading}...
अभ्य् अस्य नाम वाचा
दधामि नाह मोक्ष्यते ।
ममेद् अहैनं कामे
लभै कृष्णम् इवाखरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभ्य् अस्य नाम वाचा
दधामि नाह मोक्ष्यते ।
ममेद् अहैनं कामे
लभै कृष्णम् इवाखरे ॥
सर्वाष् टीकाः ...{Loading}...
०३ यः प्रेमा प्रेण्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
यः प्रेमा प्रेण्याम् आसीद्
दत्तः सोमेन बभ्रुणा ।
तस्माद् अधि श्रुतं मम
मय्य् अस्य मन आहितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः प्रेमा प्रेण्याम् आसीद्
दत्तः सोमेन बभ्रुणा ।
तस्माद् अधि श्रुतं मम
मय्य् अस्य मन आहितम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यं पुमांसं कामयसे
विश्वास-प्रस्तुतिः ...{Loading}...
यं पुमांसं कामयसे
यस्मिन् वा भगम् इच्छसे ।
हृच्छोकम् अस्मिन्न् आ दध्मो
यथा शुष्याति त्वाम् अनु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं पुमांसं कामयसे
यस्मिन् वा भगम् इच्छसे ।
हृच्छोकम् अस्मिन्न् आ दध्मो
यथा शुष्याति त्वाम् अनु ॥
सर्वाष् टीकाः ...{Loading}...
०५ यथास्य हृदयं शुष्याद्
विश्वास-प्रस्तुतिः ...{Loading}...
यथास्य हृदयं शुष्याद्
अपिच्छिन्नेव शंगुणी ।
चक्षुर् आकाश्यं भीमं +++(Bhatt. ākāsyaṃ)+++
मांपश्यम् अभिरोरुदम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथास्य हृदयं शुष्याद्
अपिच्छिन्नेव शंगुणी ।
चक्षुर् आकाश्यं भीमं +++(Bhatt. ākāsyaṃ)+++
मांपश्यम् अभिरोरुदम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ प्रियङ्करणम् उत्तमं मधुघेन
विश्वास-प्रस्तुतिः ...{Loading}...
प्रियंकरणम् उत्तमं
मधुघेन तद् आभृतम् ।
त्वं हासि वर्चस्यो
ऽथो हासि सुमङ्गलः ।
अथो सर्वासां वीरुधां
प्रियङ्करणम् उच्यसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रियंकरणम् उत्तमं
मधुघेन तद् आभृतम् ।
त्वं हासि वर्चस्यो
ऽथो हासि सुमङ्गलः ।
अथो सर्वासां वीरुधां
प्रियङ्करणम् उच्यसे ॥