०२५

सर्वाष् टीकाः ...{Loading}...

०१ अनड्वान् दाधार पृथिवीम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनड्वान् दाधार पृथिवीं द्याम् उतामूम्
अनड्वान् दाधारोर्व् अन्तरिक्षम् ।
अनड्वान् दाधार प्रदिशः षड् उर्वीर्
अनड्वान् इदं विश्वं भुवनम् आ विवेश ॥

०२ अनड्वान् दुहे सुकृतस्य

विश्वास-प्रस्तुतिः ...{Loading}...

अनड्वान् दुहे सुकृतस्य लोक
ऐनं प्यायेत पवमानः पुरस्तात् ।
पर्जन्यो धारा मरुत ऊधो अस्य
यज्ञः पयो दक्षिणा दोहो अस्य ॥

०३ अनड्वान् इन्द्रः स

विश्वास-प्रस्तुतिः ...{Loading}...

अनड्वान् इन्द्रः स पशुभ्यो वि चष्टे
त्रयां छक्रोप मिमीते अध्वनः ।
स भूतं भविष्यद् भुवनं दुहानः
सर्वा देवानां बिभ्रच् चरति व्रतानि ॥

०४ यस्य नेशे यज्ञपतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य नेशे यज्ञपतिर् न यज्ञो
नास्य दातेशे न प्रतिग्रहीता ।
यो विश्वभृद् विश्वकर्मा
घर्मं नो ब्रूत यतमश् चतुष्पात् ॥

०५ इन्द्र एष मनुष्येष्व्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र एष मनुष्येष्व् अन्तर्
घर्मस् तप्तश् चरति शोशुचानः ।
सुप्रजा असत् स उदारे न सर्षद्
यो नाश्नीयाद् अनडुहो विजानन् ॥

०६ येन देवाः स्वर्

विश्वास-प्रस्तुतिः ...{Loading}...

येन देवाः स्वर् आरुरुहुर्
हित्वा शरीरम् अमृतस्य धाम ।
तेन गेष्म सुकृतस्य लोकं
घर्मस्य व्रतेन यशसा तपस्यया ॥

०७ द्वादशैता रात्रीर् व्रत्या

विश्वास-प्रस्तुतिः ...{Loading}...

द्वादशैता रात्रीर्
व्रत्या आहुः प्रजापतेः ।
तत्रापि ब्रह्मणो व्रतं
तत्राप्य् अनडुहो बलम् ॥

०८ यास् त आहुः

विश्वास-प्रस्तुतिः ...{Loading}...

यास् त आहुः प्रजापतेर्
व्रत्या रात्रीर् द्वादश ।
तत्रापि ब्रह्म यो वेद
तद् वा अनडुहो बलम् ॥

०९ दुहे वा अनड्वान्

विश्वास-प्रस्तुतिः ...{Loading}...

दुहे वा अनड्वान् सायं
दुहे प्रातर् दुहे दिवा ।
दोहा ये अस्य संयन्ति
तान् विद्मानुपदस्वतः ॥

१० यो वेदानडुहो दोहान्

विश्वास-प्रस्तुतिः ...{Loading}...

यो वेदानडुहो दोहान्
सप्तान् उपदस्वतः ।
प्रजां च लोकं चाप्नोति
तथा सप्त र्षयो विदुः ॥

११ मध्यम् एतद् अनडुहो

विश्वास-प्रस्तुतिः ...{Loading}...

मध्यम् एतद् अनडुहो
यत्रैष वह आहितः ।
एतावद् अस्य प्राचीनं
यावान् प्रत्यङ् समाहितः ॥

१२ पद्भिः सेदिम् अवक्रामन्न्

विश्वास-प्रस्तुतिः ...{Loading}...

पद्भिः सेदिम् अवक्रामन्न्
इरां जङ्घाभिर् उत्खिदन् ।
श्रमेणानड्वान् कीलालं
कीनाशश् चाभि गच्छतः ॥

१३ इन्द्र एष मनुष्येष्व्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र एष मनुष्येष्व्
अनड्वान् इत्य् उच्यते ।
शफासो अस्य मा रिषन्
सर्वा याश् चास्य कुष्ठिकाः ॥

१४ इन्द्रो बलेनासि परमेष्ठी

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो बलेनासि परमेष्ठी
व्रतेन येन गौस् तेन वैश्वदेवः ।
यो अस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्य प्राणान् सं बृहत् तस्य प्राणान् वि वृह ॥