०२४

सर्वाष् टीकाः ...{Loading}...

०१ प्राची दिग् अग्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राची दिग् अग्निर् अधिपतिर्
असितो रक्षितादित्या इषवः ।
तेभ्यो नमो ऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तं वो जम्भे दध्मस् तम् उ प्राणो जहातु ॥

०२ दक्षिणा दिग् इन्द्रो

विश्वास-प्रस्तुतिः ...{Loading}...

दक्षिणा दिग् इन्द्रो ऽधिपतिस्
तिरश्चिराजी रक्षिता वसव इषवः ।
तेभ्यो नमो ऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तं वो जम्भे दध्मस् तम् उ प्राणो जहातु ॥

०३ प्रतीची दिग् वरुणो

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीची दिग् वरुणो ऽधिपतिः
पृदाकू रक्षिता मित्र इषवः ।
तेभ्यो नमो ऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तं वो जम्भे दध्मस् तम् उ प्राणो जहातु ॥

०४ उदीची दिक् सोमो

विश्वास-प्रस्तुतिः ...{Loading}...

उदीची दिक् सोमो ऽधिपतिः
स्वजो रक्षिता वात इषवः ।
तेभ्यो नमो ऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तं वो जम्भे दध्मस् तम् उ प्राणो जहातु ॥

०५ ध्रुवा दिग् विष्णुर्

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुवा दिग् विष्णुर् अधिपतिः
कल्माषग्रीवो रक्षिता वीरुध इषवः ।
तेभ्यो नमो ऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तं वो जम्भे दध्मस् तम् उ प्राणो जहातु ॥

०६ ऊर्ध्वा दिग् बृहस्पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वा दिग् बृहस्पतिर् अधिपतिश्
चित्रो रक्षिताशनिर् इषवः ।
तेभ्यो नमो ऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तं वो जम्भे दध्मस् तम् उ प्राणो जहातु ॥