०२३

सर्वाष् टीकाः ...{Loading}...

०१ सं सचध्वं सम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं सचध्वं सं पिबध्वम्
अन्नं वो मधुमत् सह ।
व्रतं वः सर्वं सध्र्यक्
समानं चेतो अस्तु वः ॥

०२ सं जानीध्वम् इन्द्रश्

विश्वास-प्रस्तुतिः ...{Loading}...

सं जानीध्वम् इन्द्रश् चेत्ता वो ऽस्त्व्
अयं वो ऽग्निर् नि हरः शमयाति ।
यद् वैरहत्यम् उत भीमम् आसीद्
विश्वे देवा अप तत् प्लावयन्तु ॥

०३ शं वः स्यास्तु

विश्वास-प्रस्तुतिः ...{Loading}...

शं वः स्यास्तु बृहस्पतिः
शं द्यावापृथिवी उभे ।
शम् अन्तरिक्षम् उत वो मरुत्वान्
शं वः स्यास्त्व् अदितिर् देवपुत्रा ॥

०४ कल्पेतां द्यावापृथिवी कल्पन्ताम्

विश्वास-प्रस्तुतिः ...{Loading}...

कल्पेतां द्यावापृथिवी
कल्पन्ताम् आप ओषधीः ।
कल्पन्ताम् अग्नयः सर्वे
ऽस्मै श्रैष्ठाय सव्रताः ॥

०५ सं वः सृजामि

विश्वास-प्रस्तुतिः ...{Loading}...

सं वः सृजामि हृदयं
संसृष्टं मनो अस्तु वः ।
संसृष्टा वस् तन्वः सन्तु
संसृष्टः प्राणो अस्तु वः ॥

०६ सं वः पशूनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं वः पशूनां हृदयं सृजामि
सं पुत्राणाम् उत या दुहितरो वः ।
सं वो जायानां मनसा मनांसि
सं पतीनाम् उत चक्षुः सृजामि ॥