०२१

सर्वाष् टीकाः ...{Loading}...

०१ इमम् इन्द्र वर्धय

विश्वास-प्रस्तुतिः ...{Loading}...

इमम् इन्द्र वर्धय क्षत्रियं म
इमं विशाम् एकवृषं कृणु त्वम् ।
निर् अमित्रान् अक्ष्णुह्य् अस्य सर्वांस्
तान् रन्धयास्मा अहमुत्तरेषु ॥

०२ अयम् अस्तु धनपतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

अयम् अस्तु धनपतिर् धनानाम्
अयं विशां विश्पतिर् अस्तु राजा ।
अस्मिन्न् इन्द्र महि वर्चांसि धेह्य् (Bhatt. Inda (misprint))
अवर्चसं कृणुहि शत्रुम् अस्य ॥

०३ एमं भज ग्रामे

विश्वास-प्रस्तुतिः ...{Loading}...

एमं भज ग्रामे अश्वेषु गोषु
निष्टं भज यो ऽमित्रो अस्य ।
वर्ष्मत् क्षत्राणाम् अयम् अस्तु राजा-
-इन्द्र शत्रूं रन्धय सर्वम् अस्मै ॥

०४ अस्मै द्यावापृथिवी भूरि

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मै द्यावापृथिवी भूरि वामं
सं दुहातां घर्मदुघे इव धेनुम् ।
अयं राजा प्रिय इन्द्रस्य भूयात्
प्रियो गवाम् ओषधीनाम् उतापाम् ॥

०५ युनज्मि त उत्तरावन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

युनज्मि त उत्तरावन्तम् इन्द्रं
येन जयन्ति न पराजयन्ते ।
यस् त्वा करद् एकवृषं जनानाम्
उत राजन्न् उत्तमं मानवानाम् ॥

०६ उत्तरस् त्वम् अधरे

विश्वास-प्रस्तुतिः ...{Loading}...

उत्तरस् त्वम् अधरे सन्त्व् अन्ये
ये के च राजन् प्रतिशत्रवस् ते ।
एकवृष इन्द्रसखा जिगीवां
छत्रूयताम् अभि तिष्ठा महांसि ॥