सर्वाष् टीकाः ...{Loading}...
०१ इहैव ध्रुवां नि
विश्वास-प्रस्तुतिः ...{Loading}...
इहैव ध्रुवां नि मिनोमि शालां
क्षेमे तिष्ठाति घृतम् उक्षमाणा ।
तां त्वा शाले सर्ववीराः सुवीरा
अरिष्टवीरा अभि सं चरेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहैव ध्रुवां नि मिनोमि शालां
क्षेमे तिष्ठाति घृतम् उक्षमाणा ।
तां त्वा शाले सर्ववीराः सुवीरा
अरिष्टवीरा अभि सं चरेम ॥
सर्वाष् टीकाः ...{Loading}...
०२ इहैव ध्रुवा प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
इहैव ध्रुवा प्रति तिष्ठ शाले
अश्वावती गोमती सूनृतावती ।
ऊर्जस्वती घृतवती पयस्वत्य्
उच् छ्रयस्व महते सौभगाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहैव ध्रुवा प्रति तिष्ठ शाले
अश्वावती गोमती सूनृतावती ।
ऊर्जस्वती घृतवती पयस्वत्य्
उच् छ्रयस्व महते सौभगाय ॥
सर्वाष् टीकाः ...{Loading}...
०३ धरुण्य् असि शाले
विश्वास-प्रस्तुतिः ...{Loading}...
धरुण्य् असि शाले
बृहच्छन्दाः पूतिधान्या ।
आ त्वा वत्सो मीमयद् आ कुमार
आ धेनवः सायम् आ स्यन्दमानाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
धरुण्य् असि शाले
बृहच्छन्दाः पूतिधान्या ।
आ त्वा वत्सो मीमयद् आ कुमार
आ धेनवः सायम् आ स्यन्दमानाः ॥
सर्वाष् टीकाः ...{Loading}...
०४ इमां शालां सविता
विश्वास-प्रस्तुतिः ...{Loading}...
इमां शालां सविता वायुर् अग्निस्
त्वष्टा होता नि मिनोतु प्रजानन् ।
उक्षन्तूध्ना मरुतो घृतेन
भगो नो राजा नि कृषिं तनोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमां शालां सविता वायुर् अग्निस्
त्वष्टा होता नि मिनोतु प्रजानन् ।
उक्षन्तूध्ना मरुतो घृतेन
भगो नो राजा नि कृषिं तनोतु ॥
सर्वाष् टीकाः ...{Loading}...
०५ मानस्य पत्नी शरणा
विश्वास-प्रस्तुतिः ...{Loading}...
मानस्य पत्नी शरणा स्योना
देवी देवेभिर् निमितास्य् अग्रे ।
तृणं वसाना सुमना असस् त्वं
रयिं नो धेहि सुभगे सुवीरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मानस्य पत्नी शरणा स्योना
देवी देवेभिर् निमितास्य् अग्रे ।
तृणं वसाना सुमना असस् त्वं
रयिं नो धेहि सुभगे सुवीरम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ आ त्वा कुमारस्
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वा कुमारस् तरुण
आ वत्सो जगता सह ।
आ त्वा परिश्रुतः कुम्भ
आ दध्नः कलश्य् अयत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ त्वा कुमारस् तरुण
आ वत्सो जगता सह ।
आ त्वा परिश्रुतः कुम्भ
आ दध्नः कलश्य् अयत् ॥