सर्वाष् टीकाः ...{Loading}...
०१ हस्तिवर्चसं प्रथतां बृहद्
विश्वास-प्रस्तुतिः ...{Loading}...
हस्तिवर्चसं प्रथतां बृहद् यशो
अदित्या यत् तन्वः संबभूव ।
तत् सर्वे सवितुर् मह्यम् एतद्
विश्वे देवासो अदितिः सजोषाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
हस्तिवर्चसं प्रथतां बृहद् यशो
अदित्या यत् तन्वः संबभूव ।
तत् सर्वे सवितुर् मह्यम् एतद्
विश्वे देवासो अदितिः सजोषाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ मित्रश् च वरुणश्
विश्वास-प्रस्तुतिः ...{Loading}...
मित्रश् च वरुणश् च-
-इन्द्रो रुद्रश् च वेधतु ।
देवासो विश्वधायसस्
तेन माञ्जन्तु वर्चसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
मित्रश् च वरुणश् च-
-इन्द्रो रुद्रश् च वेधतु ।
देवासो विश्वधायसस्
तेन माञ्जन्तु वर्चसा ॥
सर्वाष् टीकाः ...{Loading}...
०३ यत् ते वर्चो
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते वर्चो जातवेदो
बृहद् भवत्य् आहुते ।
तेन माम् अद्य वर्चसा
अग्ने वर्चस्विनं कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते वर्चो जातवेदो
बृहद् भवत्य् आहुते ।
तेन माम् अद्य वर्चसा
अग्ने वर्चस्विनं कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०४ येन हस्ती वर्चसा
विश्वास-प्रस्तुतिः ...{Loading}...
येन हस्ती वर्चसा संबभूव
येन राजा मनुष्येष्व् अन्तः ।
येन देवा ज्योतिषा द्याम् उदायन्
तेन माग्ने वर्चसा सं सृजेह ॥
मूलम् ...{Loading}...
मूलम् (GR)
येन हस्ती वर्चसा संबभूव
येन राजा मनुष्येष्व् अन्तः ।
येन देवा ज्योतिषा द्याम् उदायन्
तेन माग्ने वर्चसा सं सृजेह ॥
सर्वाष् टीकाः ...{Loading}...
०५ यावद् वर्चः सूर्यस्य
विश्वास-प्रस्तुतिः ...{Loading}...
यावद् वर्चः सूर्यस्य-
-असुरस्य च हस्तिनः ।
तावन् मे अश्विना वर्चः
कृणुतं पुष्करस्रजा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावद् वर्चः सूर्यस्य-
-असुरस्य च हस्तिनः ।
तावन् मे अश्विना वर्चः
कृणुतं पुष्करस्रजा ॥
सर्वाष् टीकाः ...{Loading}...
०६ यावच् चतस्रः प्रदिशश्
विश्वास-प्रस्तुतिः ...{Loading}...
यावच् चतस्रः प्रदिशश्
चक्षुर् यावत् समश्नुते ।
तावत् सम् ऐत्व् इन्द्रियं
मयि तद् धस्तिवर्चसम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावच् चतस्रः प्रदिशश्
चक्षुर् यावत् समश्नुते ।
तावत् सम् ऐत्व् इन्द्रियं
मयि तद् धस्तिवर्चसम् ॥