०१६

सर्वाष् टीकाः ...{Loading}...

०१ पैद्वो ऽसि पृतनायुः

विश्वास-प्रस्तुतिः ...{Loading}...

पैद्वो ऽसि पृतनायुः स्वाहा ॥

०२ सोमम् अहिंसीः सोमहिंसितो

विश्वास-प्रस्तुतिः ...{Loading}...

सोमम् अहिंसीः सोमहिंसितो ऽसि स्वाहा ॥

०३ ब्राह्मणम् अहिंसीर् ब्रह्महिंसितो

विश्वास-प्रस्तुतिः ...{Loading}...

ब्राह्मणम् अहिंसीर् ब्रह्महिंसितो ऽसि स्वाहा ॥

०४ नाभूद् अहिर् भ्रूणम्

विश्वास-प्रस्तुतिः ...{Loading}...

नाभूद् अहिर् भ्रूणम् आरद् अहिर्
अद्रिम् अरसावधीत् ।
विषस्य ब्रह्मणामासीत्
ततो जीवन् न मोक्षसे ॥ +++(mokṣyase)+++

०५ उष्टो ऽहिः समुष्टो

विश्वास-प्रस्तुतिः ...{Loading}...

उष्टो ऽहिः समुष्टो *ऽहिर् +++(Bhatt. samuṣṭo hi)+++
निर्धीतो अरसः कृतः ।
विषस्य ब्रह्मणामासीत्
ततो जीवन् न मोक्षसे ॥

०६ पुनर् ददामि ते

विश्वास-प्रस्तुतिः ...{Loading}...

पुनर् ददामि ते विषं
पूर्वपद्यम् इद् आरिथ ।
मां ददश्वान् मन्यसे
मया दष्टो न मोक्षसे ॥