०१५

सर्वाष् टीकाः ...{Loading}...

०१ यां त्वा वातोवरयद्

विश्वास-प्रस्तुतिः ...{Loading}...

यां त्वा वातोवरयद्
आर्द्रनाभा महर्षभः ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥

०२ यां त्वा वराहो

विश्वास-प्रस्तुतिः ...{Loading}...

यां त्वा वराहो अखनद्
एकस्मिन्न् अधि पुष्करे ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥

०३ यां त्वादितिर् अवपद्

विश्वास-प्रस्तुतिः ...{Loading}...

यां त्वादितिर् अवपद्
बीजवापम् अधि पुष्करे ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥

०४ यस्याः कुलायं सलिले

विश्वास-प्रस्तुतिः ...{Loading}...

यस्याः कुलायं सलिले
अन्तर् महत्य् अर्णवे ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥

०५ उत् ते भर

विश्वास-प्रस्तुतिः ...{Loading}...

उत् ते भर उत्तमाया
अधमायास् त उद् भरे ।
उन् मध्यमान् मध्यमे तद्
विषदूषणम् उद् भरे ॥

०६ अग्रभं सम् अग्रभम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्रभं सम् अग्रभम्
उभावन्तौ सम् अग्रभम् ।
दिवश् च पृथिव्याश् च
विषदूषणम् उद् भरे ॥